Proofing

2026-04-27 00:15:25 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
३२२
 
श्रीरामस्तोत्रेषु
 
</ignore>
<verse>
यो वानरीभ्य उरुमैत्रभरान्विताभ्यः

आत्माटवीगमन हेतुमुदीरयन्तीम् ।

कान्तां विलोक्य मधुरं प्रहसन् जगाम

तं राममार्तिहरणं शरणं भजामि ॥ ९१ ॥
 
</verse>
<verse>
यः सर्वमित्रनिकरैरनुजेन वध्वा
 

साकं पुरन्दरपुरोहितनन्दनस्य ।

प्राप्याश्रमं तमभिवाद्य कृतार्थ आसी-
 

त्
तं राममार्तिहरणं शरणं भजामि ॥ ९२ ॥
 
</verse>
<verse>
यस्तापसेन भृशमंम<error>चि</error><fix>र्चि</fix>तमात्मपुर्यां
 

शृण्वन् स्वबन्धुकुशलानि तदीयवाचा ।

ज्ञात्वा ननन्द भरतस्य तपस्विवृत्तिं
 

तं राममार्तिहरणं शरणं भजामि ॥ ९३ ॥
 
</verse>
<verse>
यो वायुजोदितनिजागमनश्रुतिश्री-

संपूर्णचित्तभरतं प्रणताङ्घ्रिपद्मम् ।

प्रीत्या निजाङ्कमधिरोप्य तमालिलिङ्ग
 

तं राममार्तिहरणं शरणं भजामि ॥ ९४ ॥
 
</verse>
<verse>
भक्त्या य आर्तजननीमभिवाद्य चान्याः

प्रीत्या तदीरितमहाशिष आदधानः ।

रेजे शतक्रतुरिव प्रसुवा समेत:
 
तः
तं राममार्तिहरणं शरणं भजामि ॥ ९५ ॥
 
</verse>
<verse>
यः सोदरैर्वनितया हरिभिश्च नन्दि-

ग्रामात समं नवसहस्रगजाधिरूढैः ।

प्राप्याभवत् प्रमदवान्नगरीमयोध्यां
 

तं राममार्तिहरणं शरणं भजामि ॥ ९६ ॥
 
</verse>
<verse>
राज्यावनक्षमतमे भरतप्रणीते
 

संयोज्य यः स्वपदयोर्मणिपादरक्षे ।

पूर्णं मनोरथमहो भरतस्य चक्रे
 

तं राममार्तिहरणं शरणं भजामि ॥ ९७ ॥
 
</verse>
<verse merge-next="true">
योऽनुग्रहं हरिवराय वितीर्य पूर्व
 

पश्चात् स्वयं नतविभीषणदत्तहस्तः ।
 
</verse>
</page>