Stotrarnava /367
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामप्रपत्तिशतकम्
३२१</ignore>
<verse>यः संस्तुतोऽखिलसुरैर्विरराज वीरः
तं राममार्तिहरणं शरणं भजामि ॥ ८३ ॥
</verse>
<verse>यस्त्र्यम्बकेणधधुरि दर्शितमात्मतातं
दृष्टा समुज्ज्वलविमानगतं प्रणम्य ।
अङ्के धृतः सपदि तेन ननन्द कामं
तं राममार्तिहरणं शरणं भजामि ॥ ८४ ॥
</verse>
<verse>यः पूर्वमात्मगुरुणा भरते वितीर्णं
शापं तमेनमभिवाद्य च तत्प्रसादात् ।
संमोचयन् तमतनोत्तदनुगृहीतं
तं राममार्तिहरणं शरणं भजामि ॥ ८५ ॥
</verse>
<verse>उज्जीवयन् पुनरपि प्रहतान् समीके
कीशान् सुरोत्तमवरच्छलतः सुरेषु ।
यो वैभव प्रकटनाय मुदान्वितोऽभूत्
तं राममार्तिहरणं शरणं भजामि ॥ ८६ ॥
</verse>
<verse>यः पुष्पकं समधिरुह्य वधूसहायः
साकं निजानुजविभीषणभानुसूभिः ।
अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे
तं राममार्तिहरणं शरणं भजामि ॥ ८७ ॥
</verse>
<verse>गच्छन् पुरीं दिवि विमानग एव वध्वै
युद्धे दशाननमुखा रिवधस्थलानि ।
सन्दर्शयन् सह तया मुमुदे भृशं य-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८८ ॥
</verse>
<verse>यो वायुजागममहस्करपुत्र मैत्रीं
भिल्लप्रियार्चनविधिं च महीसुतायै ।
जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ८९ ॥
</verse>
<verse>यश्चोदितो वनितया कपिवर्य पुर्यां
तारामुखाः कपिवधूः परिभूषिताङ्गीः ।
आनाय्य यानमधिरोप्य बभार हर्ष
21
षं
तं राममार्तिहरणं शरणं भजामि ॥ ९० ॥
१ ३</verse>
<ignore>२१
</ignore>
</page>
<ignore>श्रीरामप्रपत्तिशतकम्
<verse>यः संस्तुतोऽखिलसुरैर्विरराज वीरः
तं राममार्तिहरणं शरणं भजामि ॥ ८३ ॥
<verse>यस्त्र्यम्बकेण
दृष्टा समुज्ज्वलविमानगतं प्रणम्य ।
अङ्के धृतः सपदि तेन ननन्द कामं
तं राममार्तिहरणं शरणं भजामि ॥ ८४ ॥
<verse>यः पूर्वमात्मगुरुणा भरते वितीर्णं
शापं तमेनमभिवाद्य च तत्प्रसादात् ।
संमोचयन् तमतनोत्तदनुगृहीतं
तं राममार्तिहरणं शरणं भजामि ॥ ८५ ॥
<verse>उज्जीवयन् पुनरपि प्रहतान् समीके
कीशान् सुरोत्तमवरच्छलतः
यो वैभव
तं राममार्तिहरणं शरणं भजामि ॥ ८६ ॥
<verse>यः पुष्पकं समधिरुह्य वधूसहायः
साकं निजानुजविभीषणभानुसूभिः ।
अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे
तं राममार्तिहरणं शरणं भजामि ॥ ८७ ॥
<verse>गच्छन् पुरीं दिवि विमानग एव वध्वै
युद्धे दशाननमुखा
सन्दर्शयन् सह तया मुमुदे भृशं य-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८८ ॥
<verse>यो वायुजागममहस्करपुत्र
भिल्लप्रियार्चनविधिं च महीसुतायै ।
जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ८९ ॥
<verse>यश्चोदितो वनितया कपिवर्य
तारामुखाः कपिवधूः परिभूषिताङ्गीः ।
आनाय्य यानमधिरोप्य बभार हर्
21
तं राममार्तिहरणं शरणं भजामि ॥ ९० ॥
१ ३
<ignore>२१
</page>