Stotrarnava /367
This page has not been fully proofread.
श्रीरामप्रपत्तिशतकम्
यः संस्तुतोऽखिलसुरैर्विरराज वीरः
तं राममार्तिहरणं शरणं भजामि ॥ ८३ ॥
त्र्यम्बकेण धरि दर्शितमात्मतातं
दृष्टा समुज्ज्वलविमानगतं प्रणम्य ।
अङ्के धृतः सपदि तेन ननन्द कामं
तं राममार्तिहरणं शरणं भजामि ॥ ८४ ॥
यः पूर्वमात्मगुरुणा भरते वितीर्णं
शापं तमेनमभिवाद्य च तत्प्रसादात् ।
संमोचयन् तमतनोत्तदनुगृहीतं
तं राममार्तिहरणं शरणं भजामि ॥ ८५ ॥
उज्जीवयन् पुनरपि प्रहतान् समीके
कीशान् सुरोत्तमवरच्छलतः सुरेषु ।
यो वैभव प्रकटनाय मुदान्वितोऽभूत्
तं राममार्तिहरणं शरणं भजामि ॥ ८६ ॥
यः पुष्पकं समधिरुह्य वधूसहायः
साकं निजानुजविभीषणभानुसूभिः ।
अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे
तं राममार्तिहरणं शरणं भजामि ॥ ८७ ॥
गच्छन् पुरीं दिवि विमानग एव वध्वै
युद्धे दशाननमुखा रिवधस्थलानि ।
सन्दर्शयन् सह तया मुमुदे भृशं य-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८८ ॥
यो वायुजागममहस्करपुत्र मैत्रीं
भिल्लप्रियार्चनविधिं च महीसुतायै ।
जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ८९ ॥
चोदितो वनितया कपिवर्य पुर्यां
तारामुखाः कपिवधूः परिभूषिताङ्गीः ।
आनाय्य यानमधिरोप्य बभार हर्ष
21
तं राममार्तिहरणं शरणं भजामि ॥ ९० ॥
१ ३२१
यः संस्तुतोऽखिलसुरैर्विरराज वीरः
तं राममार्तिहरणं शरणं भजामि ॥ ८३ ॥
त्र्यम्बकेण धरि दर्शितमात्मतातं
दृष्टा समुज्ज्वलविमानगतं प्रणम्य ।
अङ्के धृतः सपदि तेन ननन्द कामं
तं राममार्तिहरणं शरणं भजामि ॥ ८४ ॥
यः पूर्वमात्मगुरुणा भरते वितीर्णं
शापं तमेनमभिवाद्य च तत्प्रसादात् ।
संमोचयन् तमतनोत्तदनुगृहीतं
तं राममार्तिहरणं शरणं भजामि ॥ ८५ ॥
उज्जीवयन् पुनरपि प्रहतान् समीके
कीशान् सुरोत्तमवरच्छलतः सुरेषु ।
यो वैभव प्रकटनाय मुदान्वितोऽभूत्
तं राममार्तिहरणं शरणं भजामि ॥ ८६ ॥
यः पुष्पकं समधिरुह्य वधूसहायः
साकं निजानुजविभीषणभानुसूभिः ।
अन्यैर्हरीन्द्रनिकरैः स्वपुरीं प्रतस्थे
तं राममार्तिहरणं शरणं भजामि ॥ ८७ ॥
गच्छन् पुरीं दिवि विमानग एव वध्वै
युद्धे दशाननमुखा रिवधस्थलानि ।
सन्दर्शयन् सह तया मुमुदे भृशं य-
स्तं राममार्तिहरणं शरणं भजामि ॥ ८८ ॥
यो वायुजागममहस्करपुत्र मैत्रीं
भिल्लप्रियार्चनविधिं च महीसुतायै ।
जल्पन्निमां व्यधित विस्मितचित्तवृत्तिं
तं राममार्तिहरणं शरणं भजामि ॥ ८९ ॥
चोदितो वनितया कपिवर्य पुर्यां
तारामुखाः कपिवधूः परिभूषिताङ्गीः ।
आनाय्य यानमधिरोप्य बभार हर्ष
21
तं राममार्तिहरणं शरणं भजामि ॥ ९० ॥
१ ३२१