Proofing

2026-04-03 16:52:50 by ambuda-bot

This page has not been fully proofread.

३२०
 
श्रीरामस्तोत्रेषु
 
यत्संहृतो दशमुखोऽप्यतिपापकर्मा
सद्यो विधूतकलुषोऽधिक [ दीपितात्मा ] ।
सायुज्यमुक्तिमगमद्वरयोगिगम्यां
 
तं राममार्तिहरणं शरणं भजामि ॥ ७६ ॥
 
यः सापराधिनमपि क्षणदाचरेन्द्र
 
संहृत्य संप्रकटयन् स्वकृपालुतां य: [यम् ] ।
तेजोमयं स्वपदमेव समानिनाय
 
तं राममार्तिहरणं शरणं भजामि ॥ ७७ ॥
 
निर्वर्त्य चाश्रुतमथाशु विभीषणं यो
लङ्काधिपत्यपद एव मुदा भिषिच्य ।
सङ्ग्राममूर्ध्नि विजयी विरराज धन्वी
 
तं राममार्तिहरणं शरणं भजामि ॥ ७८ ॥
 
योऽभ्यर्थितोऽपरिचयेऽपि विभीषणेन
 
तं मानयन् सकरुणं निजसान्त्ववाक्यैः ।
पूजां जहर्ष सुहृदां हृदि कारयित्वा
 
तं राममार्तिहरणं शरणं भजामि ॥ ७९ ॥
 
सौशील्य निर्जितवसिष्ठवधूस्वभावां
 
प्राणप्रियां निजवधूमपि धर्मबद्धः ।
निन्दन् वपुत्रिजगतीमनलो न मेने ( ? )
तं राममार्तिहरणं शरणं भजामि ॥ ८० ॥
 
यस्मै भिया हुतवहो निजसात्कृताङ्गी -
मत्यादृतांशुकविभूषितदिव्यदेहाम् ।
 
अङ्के वहन् पुनरदादवनीतनूजां
 
तं राममार्तिहरणं शरणं भजामि ॥ ८१ ॥
 
संवीक्ष्य यं विजयिनं शिवपद्मजेन्द्र-
वैवस्वताम्बुपतिवैश्रवणादिदेवाः ।
कल्पप्रसूननिकरैः समुदोऽभ्यवर्ष
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ८२ ॥
 
राम प्रसीद रघुवीर रणाग्रधीम्
 
रक्षः कुलान्तक विभो विजयी भवेति ।