Proofing

2026-04-03 16:52:50 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
संहार्य समुद्रमविन्दत लक्ष्मणेन
 
तं राममार्तिहरणं शरणं भजामि ॥ ६८ ॥
यः स्यन्दनेभतुरगालिपदातिपूर्णाः
सन्नद्धमूलबलसङ्घपरार्धकोटीः ।
यामार्धतः प्रतिजघान सुलीलयैक-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ६९ ॥
यः कौणपेश्वरशिरांसि दशोज्ज्वलानि
 
कृत्तानि चैकशतमङ्कुरितानि भूयः ।
दृष्ट्वा ननन्द शतकण्ठतपःप्रभावं
 
तं राममार्तिहरणं शरणं भजापि ॥ ७० ॥
यो वासवप्रहितमातलिसं प्रणीतं
 
दिव्यं रथं समभिनन्द्य मुदधिरुह्य ।
तेजोवृतो विरुरुचेऽसुरहेव[मघवेव] साक्षात्
तं राममार्तिहरणं शरणं भजामि ॥ ७१ ॥
यः संयुगे दशमुखं निशितैः स्वबाणै-
रापादमस्तकमतीव गवाक्षिताङ्गम् ।
कृत्वापि निश्वलमवेक्ष्य बभार हर्ष
 
तं राममार्तिहरणं शरणं भजामि ॥ ७२ ॥
 
संग्रामभुव्यरिजयाय घटोद्भवेन
 
प्रीत्योपदिष्टमुपगृह्य रविस्तवं यः ।
तेजो वहन् युधि बभौ रिपुदुर्निरीक्षं
 
तं राममार्तिहरणं शरणं भजामि ॥ ७३ ॥
 
रक्षोऽधिपान्तकरणेऽतिविचक्षणोऽपि
 
यो मात...... वतितरां समनुग्रहीतुम् ।
आज्ञापितास्त्रमरिनाशकमेव मेने
 
तं राममार्तिहरणं शरणं भजामि ॥ ७४ ॥
 
योऽस्त्रेण पद्मजनुषः क्षणदाचरेन्द्रं
 
द्वेधैव वक्षसि विभिद्य निपात्य भूमौ ।
लोकाखिलार्तिमपनीय भृशं ननन्द
 
तं राममार्तिहरणं शरणं भजामि ॥ ७५ ॥
 
३१९