Proofing

2026-04-03 16:52:50 by ambuda-bot

This page has not been fully proofread.

३१८
 
श्रीरामस्तोत्रेषु
 
अब्धि नलेन हरिभिर्लघु बन्धयित्वा
तीर्त्वा तमाशु निखिलैः सह वानरैर्यः ।
लङ्कां निरुच्छसनमारुरुधे समन्तात्
 
तं राममार्तिहरणं शरणं भजामि ॥ ६१ ॥
 
यो वज्रदंष्ट्रमतिदुष्टमकम्पनं च
धूम्राक्षमक्षयमुखानपि राक्षसेन्द्रान् ।
रक्षोबलाधिपतिमप्यहनत् प्रहस्तं
 
तं राममार्तिहरणं शरणं भजामि ॥ ६२ ॥
 
यो लीलया युधि निकृत्तरथध्वजाक्ष-
सेना किरीटशरचापमतिक्षताङ्गम् ।
रक्षोऽधिराजमकरोदपि कान्दिशीकं
 
तं राममार्तिहरणं शरणं भजामि ॥ ६३ ॥
 
यः कुम्भकर्णमचलं मघवानिव।शु
 
बाणैश्च मूर्ध्नि पदयोरपि चूर्णयित्वा ।
शोकाम्बुधावल ममज्जयदाशरेन्द्र
 
तं राममार्तिहरणं शरणं भजामि ॥ ६४ ॥
 
यो देवतान्तकनरान्तकरातिकाय-
 
कुम्भत्रिशीर्षकनिकुम्भमहोदरादीन् ।
 
संहार्य वानरगणैर्मुमुदे जयेन
 
तं राममार्तिहरणं शरणं भजामि ॥ ६५ ॥
 
यः शोणिताक्षम करेक्षणमत्तयुद्धो-
न्मत्तान् विरूपनयनादिनिशाचरेन्द्रान् ।
संहारयन् कपिवरैर्मुदमाप गाढं
 
तं राममार्तिहरणं शरणं भजामि ॥ ६६ ॥
 
नाम स्मरन् मनसि यस्य समीरपुत्रो
गत्वान्तरं जलधिमेकमुहूर्त मात्रात् ।
दिव्यौषधाद्रिमुपगृह्य पुनः समागात्
 
तं राममार्तिहरणं शरणं भजामि ॥ ६७ ॥
 
यः पाकशासनजितं समुपात्तमायं
यज्ञक्रियार्थमुपविष्टनि कुम्भिलान्तम् ।