Proofing

2026-04-03 16:52:50 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
भूत्वा विभोर्मधुवनं च पपौ मधूनि
 
तं राममार्तिहरणं शरणं भजामि ॥ ५३ ॥
 
यत्सन्निधिं समुपगम्य मरुत्तनूजः
 
पादाम्बुजं सविनयं सहसा प्रणम्य ।
दृष्टा मया जनकजेति जगाद मोदा-
 
तं राममार्तिहरणं शरणं भजामि ॥ ५४ ॥
 
यो मारुतेर्निजवधूकुशलप्रवृत्तिं
 
चूडामणिं च समवाप्य परं प्रहृष्टः ।
सर्वस्वदानसदृशं परिषस्वजे तं
 
तं राममार्तिहरणं शरणं भजामि ॥ ५५ ॥
 
यः स्वानुजार्कजसमीरजशक्रभूज -
 
नीलादिभिः कपिवरैः सह मन्त्र्यमाणः ।
लङ्कां शुभंयुदिवसे चकमेऽभिगन्तुं
 
तं राममार्तिहरणं शरणं भजामि ॥ ५६ ॥
 
यः पावमानिमधिरुह्य मुदा स्वयं तं
तारासुतं समधिरूढवतानुजेन ।
सम्भाषमाण इनजेन ययाववाचीं
 
तं राममार्तिहरणं शरणं भजामि ॥ ५७ ॥
 
यः सर्वराक्षसविभेदनबद्धदीक्षै-
वृक्षायुधैर्हरिबलप्रवरैः परीतः ।
 
तीरं ययौ सपदि दक्षिणवारिराशे-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ५८ ॥
 
पङ्क्त्याननानुजजुषेऽपि विभिषणाय
स्वा‌ङ्घ्रिद्वयीसरसिजं शरणं गताय ।
योऽदाच्चिरायुरपि राक्षसराजलक्ष्मी
 
तं राममार्तिहरणं शरणं भजामि ॥ ५९ ।
 
गम्भीरमात्मनि पराङ्मुखमम्बुधिं यः
क्रुद्धो विशोष्य विशिखेन शिखिप्रभेण
तत्प्रार्थितः पुनरमुं स्ववशं निनाय
 
तं राममार्तिहरणं शरणं भजामि ॥ ६० ॥
 
३१७