Stotrarnava /361
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामप्रपत्तिशतकम्
३१५</ignore>
<verse>तत्राञ्जनेयमभिगृह्य ननन्द गाढं
तं राममार्तिहरणं शरणं भजामि ॥ ३८ ॥
</verse>
<verse>यो वायुसूनुघटिता तुलमैत्रहृष्ट-
सुग्रीवदत्तनिजदारविभूषणानि ।
दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षा-
त्तं राममार्तिहरणं शरणं भजामि ॥ ३९ ॥
</verse>
<verse>यो मित्रपुत्रकथिताग्रजवैरदुःख-
निर्मोचनोदितमनाः करुणारसाब्धिः ।
हन्यां तमाश्विति ददावभयं च तस्मै
तं राममार्तिहरणं शरणं भजामि ॥ ४० ॥
</verse>
<verse>यो मित्रमोदविधये सहसैककेन
बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् ।
सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्च-
त्तं राममार्तिहरणं शरणं भजामि ॥ ४१ ॥
</verse>
<verse>यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः
संमार्गणाय सहसा कपिनायकेन ।
आनाथितान् कपिवरान् मुमुदे समीक्ष्य
तं राममार्तिहरणं शरणं भजामि ॥ ४२ ॥
</verse>
<verse>यः सौरिणा कपिवरेषु दिशश्चतस्रः
प्रस्तावितेषु कृतिनं हनुमन्तमेव ।
ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं
तं राममार्तिहरणं शरणं भजामि ॥ ४३ ॥
</verse>
<verse>यत्प्राभवादितरकीशवरैरलङ्घघ्य-
वारांनिधिं पथि विधूनितमार्गविन्घ्नम् ।
वेशन्तवल्लघु ततार समीरसूनु-
स्तं राममार्तिहरणं शरणं भजामि ॥ ४४ ॥
</verse>
<verse>लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां
केनाप्यदृश्यगतिरेव यदीयभूम्ना ।
रक्षोऽवरोधमनिलात्मभवश्चचार
तं राममार्तिहरणं शरणं भजामि ॥ ४५ ॥ :
३१५
</verse>
</page>
<ignore>श्रीरामप्रपत्तिशतकम्
<verse>तत्राञ्जनेयमभिगृह्य ननन्द गाढं
तं राममार्तिहरणं शरणं भजामि ॥ ३८ ॥
<verse>यो वायुसूनुघटिता तुलमैत्रहृष्ट-
सुग्रीवदत्तनिजदारविभूषणानि ।
दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षा-
त्तं राममार्तिहरणं शरणं भजामि ॥ ३९ ॥
<verse>यो मित्रपुत्रकथिताग्रजवैरदुःख-
निर्मोचनोदितमनाः करुणारसाब्धिः ।
हन्यां तमाश्विति ददावभयं च तस्मै
तं राममार्तिहरणं शरणं भजामि ॥ ४० ॥
<verse>यो मित्रमोदविधये सहसैककेन
बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् ।
सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्च-
त्तं राममार्तिहरणं शरणं भजामि ॥ ४१ ॥
<verse>यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः
संमार्गणाय सहसा कपिनायकेन ।
आनाथितान् कपिवरान् मुमुदे समीक्ष्य
तं राममार्तिहरणं शरणं भजामि ॥ ४२ ॥
<verse>यः सौरिणा कपिवरेषु दिशश्चतस्रः
प्रस्तावितेषु कृतिनं हनुमन्तमेव ।
ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं
तं राममार्तिहरणं शरणं भजामि ॥ ४३ ॥
<verse>यत्प्राभवादितरकीशवरैरलङ्
वारांनिधिं पथि विधूनितमार्गवि
वेशन्तवल्लघु ततार समीरसूनु-
स्तं राममार्तिहरणं शरणं भजामि ॥ ४४ ॥
<verse>लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां
केनाप्यदृश्यगतिरेव यदीयभूम्ना ।
रक्षोऽवरोधमनिलात्मभवश्चचार
तं राममार्तिहरणं शरणं भजामि ॥ ४५ ॥
३१५
</page>