Proofing

2026-04-03 16:52:49 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
तत्राञ्जनेयमभिगृह्य ननन्द गाढं
 
तं राममार्तिहरणं शरणं भजामि ॥ ३८ ॥
 
यो वायुसूनुघटिता तुलमैत्रहृष्ट-
सुग्रीवदत्तनिजदारविभूषणानि ।
 
दृष्ट्वा तुतोष रमणीमिव वीक्ष्य साक्षा-
तं राममार्तिहरणं शरणं भजामि ॥ ३९ ॥
 
यो मित्रपुत्रकथिताग्रजवैरदुःख-
निर्मोचनोदितमनाः करुणारसाब्धिः ।
हन्यां तमाश्विति ददावभयं च तस्मै
 
तं राममार्तिहरणं शरणं भजामि ॥ ४० ॥
 
यो मित्रमोदविधये सहसैककेन
 
बाणोत्तमेन विनिहत्य महेन्द्रपुत्रम् ।
सुग्रीवमेव कपिराज्यपदेऽभ्यषिञ्च-
 
तं राममार्तिहरणं शरणं भजामि ॥ ४१ ॥
 
यो भूमिशैलनिलयान् जनकेन्द्रपुत्र्याः
संमार्गणाय सहसा कपिनायकेन ।
आनाथितान् कपिवरान् मुमुदे समीक्ष्य
तं राममार्तिहरणं शरणं भजामि ॥ ४२ ॥
 
यः सौरिणा कपिवरेषु दिशश्चतस्रः
प्रस्तावितेषु कृतिनं हनुमन्तमेव ।
ज्ञात्वा करेऽस्य विततार निजाङ्गुलीयं
तं राममार्तिहरणं शरणं भजामि ॥ ४३ ॥
 
यत्प्राभवादितरकीशवरैरलङ्घय-
 
वारांनिधिं पथि विधूनितमार्गविन्नम् ।
वेशन्तवल्लघु ततार समीरसूनु-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ४४ ॥
 
लङ्कामुपेत्य निशि राक्षसकोटिगुप्तां
केनाप्यदृश्यगतिरेव यदीयभूम्ना ।
रक्षोऽवरोधमनिलात्मभवश्चचार
 
तं राममार्तिहरणं शरणं भजामि ॥ ४५ ॥ :
 
३१५