Stotrarnava /360
This page has not been fully proofread.
३१४
श्रीरामस्तोत्रेषु
यो दण्डकावनतपोनिरतैर्मुनीन्द्रै-
रभ्यर्थितो निखिलराक्षसनाशनाय ।
तेभ्यस्तथेति दयया विदधे प्रतिज्ञां
तं राममार्तिहरणं शरणं भजामि ॥ ३१ ॥
यो यातुधाननिधने विधृत प्रतिज्ञः
कालं व्यपेक्ष्य निवसन् वरपश्चवट्याम् ।
मित्रं जटायुषमवाप्य तुतोष कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३२ ॥
यो दुर्मतिं झटिति शूर्पणखां विभीकां
स्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् ।
कृत्वा मुमोच दयया विपिने सजीवां
तं राममार्तिहरणं शरणं भजामि ॥ ३३ ॥
यो दूषणत्रिशिरसौ च खरं तदीयं
सैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् ।
एको निहत्य मुमुदे सहसा जयेन
तं राममार्तिहरणं शरणं भजामि ॥ ३४ ॥
यः पङ्क्तिकन्धरहृतां मृगयन स्वकान्तां
तस्याः कृते खगपतिं पथि मुक्तजीवम् ।
दग्ध्वा स्वतातवदमुष्य ददौ च मुक्ति
तं राममार्तिहरणं शरणं भजामि ॥ ३५ ॥
यो भक्षितुं स्वमनुजं च कृतप्रयत्नं
दग्ध्वा कबन्धमपि योजनदीर्घबाहुम् ।
श्रुत्वा तदुक्तशबरीचरितो ननन्द
तं राममार्तिहरणं शरणं भजामि ॥ ३६ ॥
यस्तापसीं ससहजः शबरीमुपेत्य
तत्कल्पितप्रचुरपूजनलब्धहर्षः ।
तद्भुक्तशेषफलभुक् प्रमुमोद कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३७ ॥
यो व्याधयोषिदभिसूचितमैत्रपात्रं
सुग्रीवमेव मृगयन् समुपेत्य पम्पाम् ।
श्रीरामस्तोत्रेषु
यो दण्डकावनतपोनिरतैर्मुनीन्द्रै-
रभ्यर्थितो निखिलराक्षसनाशनाय ।
तेभ्यस्तथेति दयया विदधे प्रतिज्ञां
तं राममार्तिहरणं शरणं भजामि ॥ ३१ ॥
यो यातुधाननिधने विधृत प्रतिज्ञः
कालं व्यपेक्ष्य निवसन् वरपश्चवट्याम् ।
मित्रं जटायुषमवाप्य तुतोष कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३२ ॥
यो दुर्मतिं झटिति शूर्पणखां विभीकां
स्वस्मिन् सगर्भकरचूर्णितकर्णनासाम् ।
कृत्वा मुमोच दयया विपिने सजीवां
तं राममार्तिहरणं शरणं भजामि ॥ ३३ ॥
यो दूषणत्रिशिरसौ च खरं तदीयं
सैन्यं चतुर्दशगुणोक्तसहस्रसङ्ख्यम् ।
एको निहत्य मुमुदे सहसा जयेन
तं राममार्तिहरणं शरणं भजामि ॥ ३४ ॥
यः पङ्क्तिकन्धरहृतां मृगयन स्वकान्तां
तस्याः कृते खगपतिं पथि मुक्तजीवम् ।
दग्ध्वा स्वतातवदमुष्य ददौ च मुक्ति
तं राममार्तिहरणं शरणं भजामि ॥ ३५ ॥
यो भक्षितुं स्वमनुजं च कृतप्रयत्नं
दग्ध्वा कबन्धमपि योजनदीर्घबाहुम् ।
श्रुत्वा तदुक्तशबरीचरितो ननन्द
तं राममार्तिहरणं शरणं भजामि ॥ ३६ ॥
यस्तापसीं ससहजः शबरीमुपेत्य
तत्कल्पितप्रचुरपूजनलब्धहर्षः ।
तद्भुक्तशेषफलभुक् प्रमुमोद कामं
तं राममार्तिहरणं शरणं भजामि ॥ ३७ ॥
यो व्याधयोषिदभिसूचितमैत्रपात्रं
सुग्रीवमेव मृगयन् समुपेत्य पम्पाम् ।