Proofing

2026-04-03 16:52:49 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
वध्वा ययौ वनमशेषजगद्धिताय
 
तं राममार्तिहरणं शरणं भजामि ॥ २३ ॥
 
यो नव्यशाद्वलतले मृदुपाद्गत्या
गङ्गामुपेत्य गुहमानित उत्तरंस्ताम् ।
हित्वा गुहं सरथसूतमभूज्जट (ल-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ २४ ॥
 
यस्तज्जनेन सह सोदरजानकीभ्यां
 
तीर्त्वा लवैः ससलिला: सरितश्च बह्वीः ।
रेमे पुरीव सुदृशा सह चित्रकूटे
 
तं राममार्तिहरणं शरणं भजामि ॥ २५ ॥
 
यो मातुलस्य निलयाद्वनमागतेन
 
पादानतेन भरतेन पुरागमाय ।
संप्रार्थितोऽपि गमनं मनसापि नैच्छत्
 
तं राममार्तिहरणं शरणं भजामि ॥ २६ ।
 
यो राज्यपालनकृते मणिपादुके स्वे
 
दत्त्वा नताय भरताय च सान्त्वपूर्वम् ।
निवर्त्य तमभूत् परमप्रहृष्ट-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ २७ ॥
 
यः सानुजो वनितया सह चित्रकूटं
 
त्यक्त्वात्रिमस्य च वधूं प्रणिपत्य ताभ्याम् ।
 
दत्तं विभूषणकुलं मुमुदे प्रगृह्य
 
तं राममार्तिहरणं शरणं भजामि ॥ २८ ॥
 
यो दण्डकावनमुपेत्य खलं विराधं
हत्वा विदेहतनयाममितप्रमोदाम् ।
कृत्वा तुतोष शरभङ्गकृता मिताशीः
 
तं राममार्तिहरणं शरणं भजामि ॥ २९ ॥
 
यो वै सुतीक्ष्णमुनिना समनुगृहीतः
 
कुम्भोद्भवं समभिवाद्य मुदा च तस्मात् ।
तूणीं शरासनमसि प्रतिलभ्य रेजे
 
तं राममार्तिहरणं शरणं भजामि ॥ ३० ॥
 
३१३