Proofing

2026-04-03 16:52:48 by ambuda-bot

This page has not been fully proofread.

३१२
 
श्रीरामस्तोत्रेषु
 
यो गौतमाख्यमुनियोषितमात्मकान्त-
शापोररीकृतशिला वपुषं क्षणेन ।
चक्रे स्वपादरजसा तटिदाभदेहां
 
तं राममार्तिहरणं शरणं भजामि ॥ १६ ॥
 
यो गौतमात्मजसमीरितगाधिसूनु-
ब्राह्मण्यसङ्गमकथा श्रुतिहृष्टचेताः ।
श्लाघ्यस्तमेव सुचिरं हृदये ननन्द
 
तं राममार्तिहरणं शरणं भजामि ॥ १७ ॥ ..
 
देवासुरैरपि दुरासदमीशचापं
 
भङ्क्त्वा मृणालमिभराडिव लीलया यः ।
सद्यश्चकार जनकं सफलप्रतिज्ञं
 
तं राममार्तिहरणं शरणं भजामि ॥ १८ ॥
 
यो जानकीपरिणये स्वशिरो विनम्य
दोर्भ्यां तदङ्घ्रिसरसीरुहमममौलौ ।
आरोप्य तन्मुखमवेक्ष्य जहास मन्दं
 
तं राममार्तिहरणं शरणं भजामि ॥ १९ ॥
 
यो मैथिलेन्द्रनगरात् खपुरं प्रयास्यन्
मार्गे गृहीतपरशुं भृगुजं सचापम् ।
व्यद्रावयद्धृतशरासनदर्पवीर्यं
 
तं राममार्तिहरणं शरणं भजामि ॥ २० ।
 
यो भ्रातृभिस्त्रिभिरुदृढवधूसमेतै-
 
हेमप्रसाधितवलद्विरदाधिरूढः ।
साकेतमेत्य धरणीसुतयैव रेमे
 
तं राममार्तिहरणं शरणं भजामि ॥ २१ ॥
 
यो मातुलालयमतिप्रमदेन साकं
 
संप्रेषयन ससहजं भरतं स्वपित्रोः ।
 
शुश्रूषया चिरमशेषजनप्रियोऽभूत्
 
तं राममार्तिहरणं शरणं भजामि ॥ २२ ॥
 
यस्तात मातृवचनावितथीकरस्तं
 
साम्राज्य भोगमनपेक्ष्य सहानुजेन ।