Proofing

2026-04-03 16:52:48 by ambuda-bot

This page has not been fully proofread.

श्रीरामप्रपत्तिशतकम्
 
धन्या बभूवुरवलोक्य दृशैव पौरा-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ८ ॥
 
यं शैशवे नयनसौख्यदचारुलीला-
 
कन्दर्पकोटिकमनीयनरावतारम् ।
धन्या वभूवुरवलोक्य दृशैव पौरा-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ९॥
 
यं मौक्तिकाभरणसुन्दरमन्दहासं
नव्यप्रवालरूचिराधर शोभमानम् ।
धन्या बभूवुरवलोक्य दृशैव पौरा
 
स्तं राममार्तिहरणं शरणं भजामि ॥ १० ॥
 
यः शैशवे कुशिकजेन मखावनाय
नीतोऽनुजेन सह संप्रतिपन्नमन्त्रः ।
मध्याह्नभास्कर इवातितरां रराज
 
तं राममार्तिहरणं शरणं भजामि ॥। ११ ॥
 
बाल्ये समस्त जनतावधकारिवृत्तिं
यस्ताटकां स्त्रियमपीभसहस्रवीर्याम् ।
 
हत्वा सलीलमकरोद्भुवनं प्रहृष्टुं
 
तं राममार्तिहरणं शरणं भजामि ॥ १२ ॥
 
यस्ता का निधन हृष्टमुनिप्रदिष्टा-
 
न्यस्त्राण्यगण्यमहिमानि चिरन्तनानि ।
साक्षाद्विधाय च मनोवशगानि चक्रे
 
तं राममार्तिहरणं शरणं भजामि ॥ १३ ॥
 
पौगण्ड एव वयसि प्रबलं सुबाहुं
 
यः केसरीव करिणं समितौ निहत्य ।
मारीचमन्धिमनयत् सहसा शरेण
 
तं राममार्तिहरणं शरणं भजामि ॥ १४ ॥
 
यो मैथिलेन्द्रनगरीमभियातुकाम-
त्रिस्रोतसं पथिकां कुशिकात्मजोक्ताम् ।
शृण्वन् मुमोद भृशमात्मकुलीनभूपान्
 
तं राममार्तिहरणं शरणं भजामि ॥ १५ ॥३
 
३११