Proofing

2026-04-27 00:19:18 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>३१० श्रीरामस्तोत्रेषु</ignore>
<verse n="1">यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-
ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।
अस्मान् जगच्च विनुतः परिपालयेति
तं राममार्तिहरणं शरणं भजामि ॥ १ ॥</verse>
<verse>बृन्दारका यदुदये प्रमदादयोध्यां
सन्तानकल्पकुसुमैः परितो ववर्षुः ।
गन्धर्वजातिरतिगानरता बभूव
तं राममार्तिहरणं शरणं भजामि ॥ २ ॥</verse>
<verse>यस्योदये मनुजलोकशुभोदयोऽभूत्
सर्वं क्षणेन जगतो दुरितं प्रशान्तम् ।
चक्रुर्मुदा नटनमप्सरसः प्रकामं
तं राममार्तिहरणं शरणं भजामि ॥ ३ ॥</verse>
<verse>यस्याद्वितीयमनघं शुभदं भयघ्नं
मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।
रम्यं समुल्लसति नाम जगत्पवित्रं
तं राममार्तिहरणं शरणं भजामि ॥ ४ ॥</verse>
<verse>यं लक्ष्मणेन भरतेन च सानुजेन
बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्ट्या ।
प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-
स्तं राममार्तिहरणं शरणं भजामि ॥ ५ ॥</verse>
<verse>यः शैशवे कनकमौक्तिकनीलरत्न-
माणिक्यवज्रवरभूषणभूषिताङ्गः ।
लोकान् प्ररञ्जयति कुञ्जरमञ्जगत्या
तं राममार्तिहरणं शरणं भजामि ॥ ६ ॥</verse>
<verse>यः शैशवे मधुरसूक्तिसुधाप्रवाहै-
र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।
चक्रे निराकृतसुरपधिपभाग्यमेनं
तं राममार्तिहरणं शरणं भजामि ॥ ७ ॥</verse>
<verse merge-next="true">यं शैशवातिरमणीयसुभद्रवेष-
माकर्णदीर्घनवरक्तसरोजनेत्रम् ।</verse>
</page>