Stotrarnava /356
This page has been fully proofread once and needs a second look.
<page>
<ignore>३१०
श्रीरामस्तोत्रेषु
</ignore>
<verse>यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-
ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।
अस्मान् जगच्च विनुतः परिपालयेति
तं राममार्तिहरणं शरणं भजामि ॥ १ ॥
</verse>
<verse>बृन्दारका यदुदये प्रमदादयोध्यां
सन्तानकल्पकुसुमैः परितो ववर्षुः ।
गन्धर्वजातिरतिगानरता बभूव
तं राममार्तिहरणं शरणं भजामि ॥ २ ॥
</verse>
<verse>यस्योदये मनुजलोकशुभोदयोऽभूत्
सर्ववं क्षणेन जगतो दुरितं प्रशान्तम् ।
चक्रुर्मुदा नटनमप्सरसः प्रकामं
तं राममार्तिहरणं शरणं भजामि ॥ ३ ॥
</verse>
<verse>यस्याद्वितीयमनघं शुभदं भयन्घ्नं
मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।
रम्यं समुल्लसति नाम जगत्पवित्रं
तं राममार्तिहरणं शरणं भजामि ॥ ४ ॥
</verse>
<verse>यं लक्ष्मणेन भरतेन च सानुजेन
बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्टट्या ।
प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-
स्तं राममार्तिहरणं शरणं भजामि ॥ ५ ॥
</verse>
<verse>यः शैशवे कनकमौक्तिक नीलरत्न-
माणिक्यवज्रवरभूषणभूषिताङ्गः ।
लोकान् प्ररञ्जयति कुञ्जरमञ्जगत्या
तं राममार्तिहरणं शरणं भजामि ॥ ६ ॥
</verse>
<verse>यः शैशवे मधुरसूक्तिसुधाप्रवाहै-
र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।
चक्रे निराकृतसुरपधिपभाग्यमेनं
तं राममार्तिहरणं शरणं भजामि ॥ ७ ॥
</verse>
<verse merge-next="true">यं शैशवातिरमणीयसुभद्रवेष-
माकर्णदीर्घनवरक्त सरोजनेत्रम् ।
</verse>
</page>
<ignore>३१०
<verse>यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-
ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।
अस्मान् जगच्च विनुतः परिपालयेति
तं राममार्तिहरणं शरणं भजामि ॥ १ ॥
<verse>बृन्दारका यदुदये प्रमदादयोध्यां
सन्तानकल्पकुसुमैः परितो ववर्षुः ।
गन्धर्वजातिरतिगानरता बभूव
तं राममार्तिहरणं शरणं भजामि ॥ २ ॥
<verse>यस्योदये मनुजलोकशुभोदयोऽभूत्
सर्
चक्रुर्मुदा नटनमप्सरसः प्रकामं
तं राममार्तिहरणं शरणं भजामि ॥ ३ ॥
<verse>यस्याद्वितीयमनघं शुभदं भय
मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।
रम्यं समुल्लसति नाम जगत्पवित्रं
तं राममार्तिहरणं शरणं भजामि ॥ ४ ॥
<verse>यं लक्ष्मणेन भरतेन च सानुजेन
बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्
प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-
स्तं राममार्तिहरणं शरणं भजामि ॥ ५ ॥
<verse>यः शैशवे कनकमौक्तिक
माणिक्यवज्रवरभूषणभूषिताङ्गः ।
लोकान् प्ररञ्जयति कुञ्जरमञ्जगत्या
तं राममार्तिहरणं शरणं भजामि ॥ ६ ॥
<verse>यः शैशवे मधुरसूक्तिसुधाप्रवाहै-
र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।
चक्रे निराकृतसुरपधिपभाग्यमेनं
तं राममार्तिहरणं शरणं भजामि ॥ ७ ॥
<verse merge-next="true">यं शैशवातिरमणीयसुभद्रवेष-
माकर्णदीर्घनवरक्त
</page>