Proofing

2026-04-03 16:52:48 by ambuda-bot

This page has not been fully proofread.

३१०
 
श्रीरामस्तोत्रेषु
 
यः कोसलेन्द्रदुहितुः सुकृतेन साक्षा-
ज्जातो हरिस्तनुभवो दिवि वासवाद्यैः ।
अस्मान् जगच्च विनुतः परिपालयेति
 
तं राममार्तिहरणं शरणं भजामि ॥ १ ॥
 
बृन्दारका यदुदये प्रमदादयोध्यां
सन्तानकल्पकुसुमैः परितो ववर्षुः ।
गन्धर्वजातिरतिगानरता बभूव
 
तं राममार्तिहरणं शरणं भजामि ॥ २ ॥
 
यस्योदये मनुजलोकशुभोदयोऽभूत्
 
सर्व क्षणेन जगतो दुरितं प्रशान्तम् ।
चक्रुर्मुदा नटनमप्सरसः प्रकामं
 
तं राममार्तिहरणं शरणं भजामि ॥ ३ ॥
 
यस्याद्वितीयमनघं शुभदं भयन्नं
मुक्तिप्रदं श्रवणमङ्गलमार्तिहारि ।
रम्यं समुल्लसति नाम जगत्पवित्रं
 
तं राममार्तिहरणं शरणं भजामि ॥ ४ ॥
 
यं लक्ष्मणेन भरतेन च सानुजेन
बाल्ये सहाभिविहरन्तमवेक्ष्य दृष्टया ।
प्रापुर्न तृप्तिमवशाः प्रमदेन लोका-
 
स्तं राममार्तिहरणं शरणं भजामि ॥ ५ ॥
 
यः शैशवे कनकमौक्तिक नीलरत्न-
माणिक्यवज्रवरभूषणभूषिताङ्गः ।
लोकान् प्ररञ्जयति कुञ्जरमञ्जगत्या
तं राममार्तिहरणं शरणं भजामि ॥ ६ ॥
 
यः शैशवे मधुरसूक्तिसुधाप्रवाहै-
र्लोकस्य कर्णहृदयानि मुहुर्निषिच्य ।
चक्रे निराकृतसुरपधिपभाग्यमेनं
 
तं राममार्तिहरणं शरणं भजामि ॥ ७ ॥
 
यं शैशवातिरमणीयसुभद्रवेष-
माकर्णदीर्घनवरक्त सरोजनेत्रम् ।