Stotrarnava /355
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीराम प्रपत्तिशतकम्
३०९</ignore>
<verse>तापिञ्छनीलरुचि तामरसायताक्षं
चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९० ॥
</verse>
<verse>आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।
पश्यामि हृदयकमले रामं दूर्वादलश्याम <add>(ल) </add>म् ॥ ९१ ॥
</verse>
<verse>मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।
महिमनि महीकुमारीकुच कुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२ ॥
</verse>
<verse>जगदघहरप्रशंसे जनकसुतावलय पदविलसंसदंसे ।
निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३ ॥
</verse>
<verse>सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।
कमपि दलितमय कन्यामङ्गलमालिङ्गति मनो मे ॥ ९४ ॥
</verse>
<verse>विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।
निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५ ॥
</verse>
<verse>गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।
३०९
कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६ ॥
</verse>
<verse>कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।
कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७ ॥
</verse>
<verse>कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।
करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८ ॥
</verse>
<verse>दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।
धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९ ॥
</verse>
<p>निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।
रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०० ॥
</p>
<trailer text="18_END">॥ इति श्रीरामकर्णामृतं सम्पूर्णम् ॥
</trailer>
<title text="19_START">१९. ॥ अथ श्रीरामप्रपत्तिशतकम् ॥
</title>
<verse>कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः ।
कल्याणरामः कृपया कल्याणानि करोतु नः ॥
</verse>
<verse>राजराजशिरोरत्नराजनीराजिताङ्घघ्रये ।
राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥
</verse>
</page>
<ignore>श्रीराम प्रपत्तिशतकम्
<verse>तापिञ्छनीलरुचि तामरसायताक्षं
चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९० ॥
<verse>आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।
पश्यामि हृदयकमले रामं दूर्वादलश्याम
<verse>मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।
महिमनि महीकुमारीकुच
<verse>जगदघहरप्रशंसे जनकसुतावलय
निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३ ॥
<verse>सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।
कमपि दलितमय
<verse>विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।
निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५ ॥
<verse>गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।
३०९
कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६ ॥
<verse>कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।
कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७ ॥
<verse>कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।
करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८ ॥
<verse>दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।
धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९ ॥
<p>निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।
रुचितुलितरवितुरङ्गे क्वचन रमे रघुकुलार्णवतरङ्गे ॥ १०० ॥
<trailer text="18_END">॥ इति श्रीरामकर्णामृतं सम्पूर्णम् ॥
<title text="19_START">१९. ॥ अथ श्रीरामप्रपत्तिशतकम् ॥
<verse>कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः ।
कल्याणरामः कृपया कल्याणानि करोतु नः ॥
<verse>राजराजशिरोरत्नराजनीराजिताङ्
राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥
</page>