Proofing

2026-04-03 16:52:48 by ambuda-bot

This page has not been fully proofread.

श्रीराम प्रपत्तिशतकम्
 
तापिञ्छनीलरुचि तामरसायताक्षं
 
चापोज्ज्वलं किमपि वस्तु ममाविरस्तु ॥ ९० ॥
 
आबद्धतूणमंसे करकमलद्वन्द्वधृतधनुर्बाणम् ।
 
पश्यामि हृदयकमले रामं दूर्वादलश्याम (ल) म् ॥ ९१ ॥
 
मज्जति मनो मदीयं क्वचिदपि दलितेन्द्रमणिनीले ।
महिमनि महीकुमारीकुच कुड्मलकुङ्कुमाङ्कितोरस्के ॥ ९२ ॥
जगदघहरप्रशंसे जनकसुतावलय पदविलसं ।
निगमान्तनलिनहंसे रमते मम हृदयं रविकुलवतंसे ॥ ९३ ॥
 
सरसघनसारमेदुरचन्दननिष्यन्दशीतलालोकम् ।
 
कमपि दलितमय कन्यामङ्गलमालिङ्गति मनो मे ॥ ९४ ॥
 
विकचेन्दीवरनीलं विदेहतनयाकुचस्तबकलोलम् ।
निगमान्तसुधानिलयं माधुर्यं पिबति मामकं हृदयम् ॥ ९५ ॥
 
गिरिशधनुस्तरुकरिणं गलितभृगुप्रवरगर्वसर्वस्वम् ।
 
३०९
 
कलयामि कमपि वीरं कृत्तकबन्धं कृताम्बुनिधिबन्धम् ॥ ९६ ॥
 
कुशिकसुतकुतुकदायी कुवलयदलनीलकोमलशरीरः ।
 
कोसलकुलतिलको मे कोऽपि गतिः कोविदाररथकेतुः ॥ ९७ ॥
 
कुवलयदामसरूपं कुण्ठितदशकण्ठनिरुपमाटोपम् ।
 
करतलगृहीतचापं कलये तद्धाम पामरदुरापम् ॥ ९८ ॥
 
दलितेन्दीवररूपे दर्शितदशकण्ठयौवतविलापे ।
 
धृतशरचापकलापे दीव्यति हृदयं दिलीपकुलदीपे ॥ ९९ ॥
 
निगमान्तवनकुरङ्गे निर्मलमुन्यन्तरङ्गनटरङ्गे ।
 
रुचितुलितरवितुरङ्गे वचन रमे रघुकुलार्णवतरङ्गे ॥ १०० ॥
॥ इति श्रीरामकर्णामृतं सम्पूर्णम् ॥
 
१९. ॥ अथ श्रीरामप्रपत्तिशतकम् ॥
कल्याणाद्रिमहाधीरः कल्याणगुणवारिधिः ।
कल्याणरामः कृपया कल्याणानि करोतु नः ॥
राजराजशिरोरत्नराजनीराजिताङ्घये ।
राजद्राजीववक्त्राय रामराजाय मङ्गलम् ॥