Stotrarnava /354
This page has been fully proofread once and needs a second look.
<page>
<ignore>३०८
श्रीरामस्तोत्रेषु
</ignore>
<verse>करधृतशरचापः कान्तिमत्पङ्कजाक्षो
निहितशरधिरंसे नीरद स्निग्धनीलः ।
वनमृगपरिवारो वन्दनीयो मुनीनां
मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३ ॥
</verse>
<verse>मघवदुपलनीले मण्डलीकृत्य चापं
मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।
रणधरणिरजोभिर्धूसरे वासरेश-
प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४ ॥
</verse>
<verse>शुभगुणकलकण्ठस्तोम माकन्दशाखा-
नियमिनिवह चेतोनीलकण्ठाभ्ररेखा ।
दशवदनवधूटी चक्रवाकीत्रियामा
जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५ ॥
</verse>
<verse>तारुण्यदर्पतरलीकृतगोपकन्या
दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।
काकुत्स्थवीर कमलानयनाभिरामं
गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६ ॥
</verse>
<verse>कल्याणमावहतु दाशरथेः कटाक्षः
शाखामृगे शतमखादपि सानुकम्पः ।
आभाति भूमितनयाधरबिम्बलोभ-
सम्पातसंक्रमितलाक्ष इवारुणो यः ॥ ८७ ॥
</verse>
<p>(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया ।)
</p>
<verse>स कश्चन गिरीन्द्रजासखशरासनत्व्रश्चको
मनो हरति मामकं मरतकोपलश्यामलः ।
धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-
र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८ ॥
</verse>
<verse>धन्या वयं धरणिकन्याकया सनाथे
नाथे स्थिते जगति नः परिपालनाय ।
य
यश्शीलितो यतिभिरात्मनि निष्कलङ्के
लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९ ॥
</verse>
<verse merge-next="true">दीनानुकम्पि दिवसेश्वरवंशरत्नं
कर्तृव्यपेतवचसां कथमप्युपेयम् ।
</verse>
</page>
<ignore>३०८
<verse>करधृतशरचापः कान्तिमत्पङ्कजाक्षो
निहितशरधिरंसे नीरद
वनमृगपरिवारो वन्दनीयो मुनीनां
मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३ ॥
<verse>मघवदुपलनीले मण्डलीकृत्य चापं
मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।
रणधरणिरजोभिर्धूसरे वासरेश-
प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४ ॥
<verse>शुभगुणकलकण्ठस्तोम
नियमिनिवह
दशवदनवधूटी
जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५ ॥
<verse>तारुण्यदर्पतरलीकृतगोपकन्या
दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।
काकुत्स्थवीर कमलानयनाभिरामं
गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६ ॥
<verse>कल्याणमावहतु दाशरथेः कटाक्षः
शाखामृगे शतमखादपि सानुकम्पः ।
आभाति भूमितनयाधरबिम्बलोभ-
सम्पातसंक्रमितलाक्ष इवारुणो यः ॥ ८७ ॥
<p>(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया ।)
<verse>स कश्चन गिरीन्द्रजासखशरासन
मनो हरति मामकं मरतकोपलश्यामलः ।
धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-
र्धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८ ॥
<verse>धन्या वयं धरणिकन्याकया सनाथे
नाथे स्थिते जगति नः परिपालनाय ।
य
यश्शीलितो यतिभिरात्मनि निष्कलङ्के
लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९ ॥
<verse merge-next="true">दीनानुकम्पि दिवसेश्वरवंशरत्नं
कर्तृव्यपेतवचसां कथमप्युपेयम् ।
</page>