Proofing

2026-04-03 16:52:47 by ambuda-bot

This page has not been fully proofread.

३०८
 
श्रीरामस्तोत्रेषु
 
करधृतशरचापः कान्तिमत्पङ्कजाक्षो
निहितशरधिरंसे नीरद स्निग्धनीलः ।
वनमृगपरिवारो वन्दनीयो मुनीनां
 
मदयति हृदयं मे मैथिलीप्राणनाथः ॥ ८३ ॥
 
मघवदुपलनीले मण्डलीकृत्य चापं
 
मुहुरभिदशकण्ठं मुञ्चतीषुप्रपञ्चम् ।
रणधरणिरजोभिर्धूसरे वासरेश-
 
प्रभवकुलभवानामुत्तमे चित्तमेति ॥ ८४ ॥
 
शुभगुणकलकण्ठस्तोम माकन्दशाखा-
 
नियमिनिवह चेतोनीलकण्ठाभ्ररेखा ।
 
दशवदनवधूटी चक्रवाकीत्रियामा
 
जनयति कुतुकं मे जानकीप्रेमसीमा ॥ ८५ ॥
 
तारुण्यदर्पतरलीकृतगोपकन्या
 
दृष्टिप्रियं तव यदस्ति वपुस्तदास्ताम् ।
काकुत्स्थवीर कमलानयनाभिरामं
 
गात्रं त्विदं तव करोति मुदं मदन्तः ॥ ८६ ॥
 
कल्याणमावहतु दाशरथेः कटाक्षः
 
शाखामृगे शतमखादपि सानुकम्पः ।
 
आभाति भूमितनयाधरबिम्बलोभ-
 
सम्पातसंक्रमितलाक्ष इवारुणो यः ॥ ८७ ॥
 
(रामं सुन्दरतया महालक्ष्मीश्चकमे इति पुराणे कथानुसन्धेया ।)
स कश्चन गिरीन्द्रजासखशरासनत्रश्चको
 
मनो हरति मामकं मरतकोपलश्यामलः ।
धनुश्शरलसत्करो धरणिकन्यकाप्रेमभू-
 
धनञ्जयरथध्वजाभरणभूतदूतः प्रभुः ॥ ८८ ॥
 
धन्या वयं धरणिकन्याकया सनाथे
 
नाथे स्थिते जगति नः परिपालनाय ।
यशीलितो यतिभिरात्मनि निष्कलङ्के
 
लङ्केश्वरं लवितुमाप मनुष्यरूपम् ॥ ८९ ॥
 
दीनानुकम्पि दिवसेश्वरवंशरत्नं
कर्तृव्यपेतवचसां कथमप्युपेयम् ।