Stotrarnava /353
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामकर्णामृतम्
३०७</ignore>
<verse>धावते हि कुलदेवतेति मे
चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥
</verse>
<verse>कालिकानिभरुचिः कनीयसा
कान्तया च सह कल्पितासिका ।
कार्मुकाशुगलसत्कराम्बुजा
काचिदस्ति करुणा गतिर्मम ॥ ७६ ॥
</verse>
<verse>मामके मनसि धान्यमालिनी-
भूषणासह भुजोष्मशालिनी ।
सा चकास्ति शरचापधारिणी
भालुमालिकुलभाग्यधोरणी ॥ ७७ ॥
</verse>
<verse>याति तेजसि मनः सनातने
दूतभूषितकिरीटि केतने ।
यामिनीचरचमूभयङ्करे
जानकीनयनकेलिकिङ्करे ॥ ७८ ॥
</verse>
<verse>चङ्क्रमानुकृतगन्धसिन्धुरा
सिन्धुराजकृत सेतुबन्धना ।
वासनाधृतशरासनाशुगा
मेचका मनसि मे चकास्ति सा ॥ ७९ ॥
</verse>
<verse>बानरक्षपितराक्षसव्रजं
दीनरक्षणविचक्षणं प्रभुम् ।
श्रीमदम्ग्र्यशरचापमेति मे
जामदग्न्यमदनिग्रहं मनः ॥ ८० ॥
</verse>
<verse>कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं
कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।
पाणिद्वन्द्वगृहीत बाणधनुषं पाथोदनीलत्विषं
पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥
</verse>
<verse>कुवलयदलनीलश्रीभृतां भूकुमारी-
कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।
दशमुखभुज तेजोदर्पतूलानिलानां
दशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥
३०७
</verse>
</page>
<ignore>श्रीरामकर्णामृतम्
<verse>धावते हि कुलदेवतेति मे
चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥
<verse>कालिकानिभरुचिः कनीयसा
कान्तया च सह कल्पितासिका ।
कार्मुकाशुगलसत्कराम्बुजा
काचिदस्ति करुणा गतिर्मम ॥ ७६ ॥
<verse>मामके मनसि धान्यमालिनी-
भूषणासह
सा चकास्ति शरचापधारिणी
भालुमालिकुलभाग्यधोरणी ॥ ७७ ॥
<verse>याति तेजसि मनः सनातने
दूतभूषितकिरीटि
यामिनीचरचमूभयङ्करे
जानकीनयनकेलिकिङ्करे ॥ ७८ ॥
<verse>चङ्क्रमानुकृतगन्धसिन्धुरा
सिन्धुराजकृत
वासनाधृतशरासनाशुगा
मेचका मनसि मे चकास्ति सा ॥ ७९ ॥
<verse>बानरक्षपितराक्षसव्रजं
दीनरक्षणविचक्षणं प्रभुम् ।
श्रीमद
जामदग्न्यमदनिग्रहं मनः ॥ ८० ॥
<verse>कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं
कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।
पाणिद्वन्द्वगृहीत
पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥
<verse>कुवलयदलनीलश्रीभृतां भूकुमारी-
कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।
दशमुखभुज
दशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥
३०७
</page>