Stotrarnava /353
This page has not been fully proofread.
श्रीरामकर्णामृतम्
धावते हि कुलदेवतेति मे
चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥
कालिकानिभरुचिः कनीयसा
कान्तया च सह कल्पितासिका ।
कार्मुकाशुगलसत्कराम्बुजा
काचिदस्ति करुणा गतिर्मम ॥ ७६ ॥
मामके मनसि धान्यमालिनी-
भूषणासह भुजोष्मशालिनी ।
सा चकास्ति शरचापधारिणी
भालुमालिकुलभाग्यधोरणी ॥ ७७ ॥
याति तेजसि मनः सनातने
दूतभूषितकिरीटि केतने ।
यामिनीचरचमूभयङ्करे
जानकीनयनकेलिकिङ्करे ॥ ७८ ॥
चङ्क्रमानुकृतगन्धसिन्धुरा
सिन्धुराजकृत सेतुबन्धना ।
वासनाधृतशरासनाशुगा
मेचका मनसि मे चकास्ति सा ॥ ७९ ॥
बानरक्षपितराक्षसव्रजं
दीनरक्षणविचक्षणं प्रभुम् ।
श्रीमदम्यशरचापमेति मे
जामदग्न्यमदनिग्रहं मनः ॥ ८० ॥
कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं
कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।
पाणिद्वन्द्वगृहीत बाणधनुषं पाथोदनीलत्विषं
पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥
कुवलयदलनीलश्रीभृतां भूकुमारी-
कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।
दशमुखभुज तेजोदर्पतूलानिलानां
दशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥
३०७
धावते हि कुलदेवतेति मे
चित्तमेवमिदमुत्तमे नृणाम् ॥ ७५ ॥
कालिकानिभरुचिः कनीयसा
कान्तया च सह कल्पितासिका ।
कार्मुकाशुगलसत्कराम्बुजा
काचिदस्ति करुणा गतिर्मम ॥ ७६ ॥
मामके मनसि धान्यमालिनी-
भूषणासह भुजोष्मशालिनी ।
सा चकास्ति शरचापधारिणी
भालुमालिकुलभाग्यधोरणी ॥ ७७ ॥
याति तेजसि मनः सनातने
दूतभूषितकिरीटि केतने ।
यामिनीचरचमूभयङ्करे
जानकीनयनकेलिकिङ्करे ॥ ७८ ॥
चङ्क्रमानुकृतगन्धसिन्धुरा
सिन्धुराजकृत सेतुबन्धना ।
वासनाधृतशरासनाशुगा
मेचका मनसि मे चकास्ति सा ॥ ७९ ॥
बानरक्षपितराक्षसव्रजं
दीनरक्षणविचक्षणं प्रभुम् ।
श्रीमदम्यशरचापमेति मे
जामदग्न्यमदनिग्रहं मनः ॥ ८० ॥
कण्ठेकालशरासखण्डनचणं कल्याणनानागुणं
कारुण्याभरणं खरान्तकरणं कञ्जाभिरामेक्षणम् ।
पाणिद्वन्द्वगृहीत बाणधनुषं पाथोदनीलत्विषं
पौलस्त्यासुमुषं भजामि पुरुषं पार्श्वे वधूटीजुषम् ॥ ८१ ॥
कुवलयदलनीलश्रीभृतां भूकुमारी-
कुचकलशविराजत्कुङ्कुमैरङ्कितानाम् ।
दशमुखभुज तेजोदर्पतूलानिलानां
दशरथसुकृतानां दासभावं भजामः ॥ ८२ ॥
३०७