Stotrarnava /351
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामकर्णामृतम् ३०५</ignore>
<pverse>मनसे मम रोचतेऽभिरूपा
करुणा काचिदुपात्तबाणचापा ॥ ६० ॥</pverse>
<verse>मौलौ निधेहि मकुटं त्यज बर्हिगर्हं
बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।
शाखामृगैर्विहर सन्त्यज गोपबालान्
रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥</verse>
<verse>कृष्णैकसूतरथकेतनभूतदूत
आनूरुसारथिरथात्मजमित्रभूतः ।
पाणीश <ellipsis>. . . .</ellipsis> रथस्य शरासभूतः
कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥</verse>
<verse>दृप्यद्दशाननकलत्रकठोरगर्भ-
विभ्रंशविभ्रमपरिस्फुटसाहसेन ।
घण्टा विलुण्ठयतु नः कलुषं रवेण
कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥</verse>
<verse>देवद्विषां विजयदेहभृतां शरण्यं
कारुण्यभूषितकटाक्षमुदग्रचापम् ।
टङ्कत्रुटन्मरतकोपलरत्ननील-
धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥</verse>
<verse>आस्ते कृतान्त इति पापिषु दण्डधारी-
त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।
रक्षिष्यतीति रघुनन्दनमेव साक्षा-
द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥</verse>
<verse>तिष्ठन्तु दारुणतरा निरयाः सहस्रं
तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।
पापात्मनोऽपि नियतं परिपालनाय
कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥</verse>
<verse>लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा
वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।
दृष्टा वत्सलया दृशा रघुपतेः पुत्रा इव प्रत्यहं
प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥</verse>
</page>
<ignore>श्रीरामकर्णामृतम् ३०५</ignore>
<
करुणा काचिदुपात्तबाणचापा ॥ ६० ॥</