Stotrarnava /351
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामकर्णामृतम्
३०५</ignore>
<p>मनसे मम रोचतेऽभिरूपा
करुणा काचिदुपात्तवाबाणचापा ॥ ६० ॥
</p>
<verse>मौलौ निधेहि मकुटं त्यज बर्हिग
र्हं
बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।
शाखामृगैर्विहर सन्त्यज गोपबालान्
रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥
</verse>
<verse>कृष्णैकसूतरथकेतनभूतदूत
आनूरुसारथिरथात्मजमित्रभूतः ।
पाणीश• •<ellipsis>. . . .</ellipsis> रथस्य शरासभूतः
कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥
</verse>
<verse>दृप्यद्दशाननकलत्रकठोरगर्भ-
विभ्रंशविभ्रमपरिस्फुटसाहसेन ।
घण्टा विलुण्ठयतु नः कलुषं रवेण
कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥
</verse>
<verse>देवद्विषां विजय देहभृतां शरण्यं
कारुण्यभूषित कट (कटाक्षमुद्दग्रचापम् ।
टङ्कत्रुटन्मरतकोपलरत्ननील-
धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥
</verse>
<verse>आस्ते कृतान्त इति पापिषु दण्डधारी-
त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।
रक्षिष्यतीति रघुनन्दनमेव साक्षा-
द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥
</verse>
<verse>तिष्ठन्तु दारुणतरा निरयाः सहस्रं
तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।
पापात्मनोऽपि नियतं परिपालनाय
कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥
</verse>
<verse>लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा
वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।
दृष्टा वत्सलयाहदृशा रघुपतेः पुत्रा इव प्रत्यहं
20
३०५
प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥
</verse>
</page>
<ignore>श्रीरामकर्णामृतम्
<p>मनसे मम रोचतेऽभिरूपा
करुणा काचिदुपात्त
<verse>मौलौ निधेहि मकुटं त्यज बर्हिग
बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।
शाखामृगैर्विहर सन्त्यज गोपबालान्
रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥
<verse>कृष्णैकसूतरथकेतनभूतदूत
आनूरुसारथिरथात्मजमित्रभूतः ।
पाणीश
कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥
<verse>दृप्यद्दशाननकलत्रकठोरगर्भ-
विभ्रंशविभ्रमपरिस्फुटसाहसेन ।
घण्टा विलुण्ठयतु नः कलुषं रवेण
कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥
<verse>देवद्विषां विजय
कारुण्यभूषित
टङ्कत्रुटन्मरतकोपलरत्ननील-
धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥
<verse>आस्ते कृतान्त इति पापिषु दण्डधारी-
त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।
रक्षिष्यतीति रघुनन्दनमेव साक्षा-
द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥
<verse>तिष्ठन्तु दारुणतरा निरयाः सहस्रं
तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।
पापात्मनोऽपि नियतं परिपालनाय
कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥
<verse>लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा
वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।
दृष्टा वत्सलया
20
३०५
प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥
</page>