Proofing

2026-04-03 16:52:46 by ambuda-bot

This page has not been fully proofread.

श्रीरामकर्णामृतम्
 
मनसे मम रोचतेऽभिरूपा
 
करुणा काचिदुपात्तवाणचापा ॥ ६० ॥
 
मौलौ निधेहि मकुटं त्यज बर्हिग
 
बाणं गृहाण धनुषा सह मुञ्च वेणुम् ।
शाखामृगैर्विहर सन्त्यज गोपबालान्
 
रामो यदूद्वह भव त्वमथाश्रये त्वाम् ॥ ६१ ॥
 
कृष्णैकसूतरथकेतनभूतदूत
आनूरुसारथिरथात्मजमित्रभूतः ।
 
पाणीश • • रथस्य शरासभूतः
 
कश्चिन्मनो हरति कार्मुकभूषणो मे ॥ ६२ ॥
 
दृप्यद्दशाननकलत्रकठोरगर्भ-
 
विभ्रंशविभ्रमपरिस्फुटसाहसेन ।
 
घण्टा विलुण्ठयतु नः कलुषं रवेण
कोदण्डकोटिघटिता कुलदेवतायाः ॥ ६३ ॥
 
देवद्विषां विजय देहभृतां शरण्यं
 
कारुण्यभूषित कट (क्षमुद्ग्रचापम् ।
 
टङ्कत्रुटन्मरतकोपलरत्ननील-
 
धाम स्मरामि धरणीतनयासहायम् ॥ ६४ ॥
 
आस्ते कृतान्त इति पापिषु दण्डधारी-
 
त्याकर्ण्यते मुहुरवाप्तपरम्पराभ्यः ।
 
रक्षिष्यतीति रघुनन्दनमेव साक्षा-
 
द्विश्वस्य केवलमहं न विचिक्रियामि ॥ ६५ ॥
 
तिष्ठन्तु दारुणतरा निरयाः सहस्रं
 
तिष्ठन्तु घोरचरिता यमकिङ्करा वा ।
 
पापात्मनोऽपि नियतं परिपालनाय
 
कोदण्डपाणिरिति कोऽपि ममास्ति नाथः ॥ ६६ ॥
 
लीलोपात्तबलिप्रसूनमुकुलाः स्निग्धेन सौमित्रिणा
वैदेहीकरपल्लवात्तकलशीधाराम्बुसंवर्धिताः ।
 
दृष्टा वत्सलया हशा रघुपतेः पुत्रा इव प्रत्यहं
 
20
 
३०५
 
प्रायः पञ्चवटीकुटीरतरवः प्रीणन्ति मे मानसम् ॥ ६७ ॥