Proofing

2026-04-03 16:52:46 by ambuda-bot

This page has not been fully proofread.

३०४
 
श्रीरामस्तोत्रेषु
 
भरिता दयया शोः सुराणां
परितापक्षतये गृहीतचापा ।
दुरितानि धुनोतु कापि लीला-
 
च्छुरिता भूमिसुताकुचाङ्गरागैः ॥ ५३ ॥
सुरचारणसिद्धबद्धसेवः
 
शरचापाभरणो नवाम्बुदश्रीः ।
अहिमांशुकुलार्णवेन्दुरेको
 
महिमान्तःकरणे ममाविरस्तु ॥ ५४ ॥
 
धनुषा सह सायकं दधाने
 
जनुषा भूषितचण्डरश्मिवंशे ।
 
कुचनम्रमहीसुतानुरक्ते
 
क्वचन न्यस्तमिदं महिम्नि चेतः ॥ ५५ ॥
 
भयकम्पितसागर प्रशस्ते
 
मयकन्यातनुमण्डनासहिष्णौ ।
 
नवगारुडरत्नभासुरे स्या-
 
दवगाढं हृदयं कचित् प्रभौ मे ॥ ५६ ॥
 
निजनामरसज्ञनीलकण्ठं
 
भजनाय प्लवगावृतोपकण्ठम् ।
बलयन्त्रितसिन्धुमन्तरेकं
 
कलयन्नन्यमुपासितुं यते कम् ॥ ५७ ॥
 
विकटभ्रुकुटीन् विलोकतेऽरीन्
 
विशिखान् मुञ्चति विग्रहान् बिभर्ति ।
 
अनुलिम्पति शोणितैर्धरित्रीं
 
रणरङ्गे रघुपुङ्गवः समिन्धे ( ? ) ॥ ५८ ॥
 
स्मयमानमुखेन्दुरिन्द्रनील-
 
द्युतिरम्भोज दलेक्षणो धनुष्मान् ।
 
तरलीकृतजानकीद्दगन्त -
 
स्तरुणः कश्चन में मनो धिनोति ॥ ५९ ॥
 
दलदुत्पलद।मकोमलाङ्गी
 
दशकण्ठायुरपायकालभङ्गी ।
 
1. धुनोति