Stotrarnava /349
This page has not been fully proofread.
श्रीरामकर्णामृतम्
जनकनृपतिकन्यासस्पृहालिङ्गनाहः
श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५ ॥
कुवलयदलनीलः कोऽपि रक्षोवधूनां
कुचगिरिषु निपातं वाष्पवृष्टेर्विधाता ।
निखिलभुवनचेतो बर्हिनृत्तैकहेतुः
शमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६ ॥
निगमशिखरि शृङ्गान्नित्यमागत्य खेल-
न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते ।
दशवदन गजेन्द्रे दर्शिता घातलीलो
वशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७ ॥
करयोः शरकार्मुकाभिरामं
पदयोरश्मविवेककृप्तरागम् ।
कलितेषुधिमंसयोः प्रभुं तं
करुणापूर्णमपाङ्गयोरुपासे ॥ ४८ ॥
अवलम्ब्य शरासमद्रिसारं
गुणमाकृष्य घनध्वनिं विमुञ्चन् ।
विशिखान हितेषु रुक्मपुङ्खान्
विहरत्याहव सीनि वीररामः ॥ ४९ ॥
चरमाङ्गनिबद्धचारुतूणं
सुरमाङ्गल्यधुरीणचापबाणम् ।
अलिनीलमुपैति मानसं मे
नलिनीनायकवंशभागधेयम् ॥ ५० ॥
दृशि कारुणिकः करे धनुष्मान्
कुशिकापत्यमखस्य रक्षिता यः ।
रजनीचरतूलचण्डवातो
भजनीयो मम सोऽयमेक एव ॥ ५१ ॥
नवनीरदनीलमात्तचापं
भवनीहाररविं शृणोति लोकः ।
अवनीतनयासखं जगत्या
स्तवनीयं मम दैवमेकमेव ॥ ५२ ॥
३०३
जनकनृपतिकन्यासस्पृहालिङ्गनाहः
श्रुतियुवतिकबर्याः कोऽपि सौरभ्यसारः ॥ ४५ ॥
कुवलयदलनीलः कोऽपि रक्षोवधूनां
कुचगिरिषु निपातं वाष्पवृष्टेर्विधाता ।
निखिलभुवनचेतो बर्हिनृत्तैकहेतुः
शमयति मम तापं शार्ङ्गवानम्बुवाहः ॥ ४६ ॥
निगमशिखरि शृङ्गान्नित्यमागत्य खेल-
न्मुनिजनहृदरण्ये मोहसारङ्गमुक्ते ।
दशवदन गजेन्द्रे दर्शिता घातलीलो
वशयति रघुसिंहो मानसं नः प्रसन्नः ॥ ४७ ॥
करयोः शरकार्मुकाभिरामं
पदयोरश्मविवेककृप्तरागम् ।
कलितेषुधिमंसयोः प्रभुं तं
करुणापूर्णमपाङ्गयोरुपासे ॥ ४८ ॥
अवलम्ब्य शरासमद्रिसारं
गुणमाकृष्य घनध्वनिं विमुञ्चन् ।
विशिखान हितेषु रुक्मपुङ्खान्
विहरत्याहव सीनि वीररामः ॥ ४९ ॥
चरमाङ्गनिबद्धचारुतूणं
सुरमाङ्गल्यधुरीणचापबाणम् ।
अलिनीलमुपैति मानसं मे
नलिनीनायकवंशभागधेयम् ॥ ५० ॥
दृशि कारुणिकः करे धनुष्मान्
कुशिकापत्यमखस्य रक्षिता यः ।
रजनीचरतूलचण्डवातो
भजनीयो मम सोऽयमेक एव ॥ ५१ ॥
नवनीरदनीलमात्तचापं
भवनीहाररविं शृणोति लोकः ।
अवनीतनयासखं जगत्या
स्तवनीयं मम दैवमेकमेव ॥ ५२ ॥
३०३