Proofing

2026-04-03 16:52:46 by ambuda-bot

This page has not been fully proofread.

३०२.
 
श्रीरामस्तोत्रेषु
 
स्फटिकधवलान्मेघश्यामे गृहीतमृगानलात्
धृतधनुरिषौ भूतेशानात् प्लवङ्गमसेविते ।
मतिरवतरत्यात्तव्याघ्राजिनाद्धतवल्कले
 
शिखरितनयानाथात् पृथ्वीसुतापरिणेतरि ॥ ३८ ॥
 
स्वच्छन्दं व्रजसुन्दरीजन विटा द्वद्वैकदारत्रते
लीलावेणुलसत्करात् त्रिभुवनत्राणाय चापस्पृशि ।
चोराकृष्टवधूजनात् परिणतौ कीट । दिमुक्तिप्रदे
व्यावृत्तं मम यादवाद्रघुपतौ चेतः स्वयं धावति ॥ ३९ ॥
 
कश्चिद्वालो मृत्तिकां भक्षयित्वा
 
कश्चिद्वृद्धश्चूतमूले लुठित्वा ।
 
मां रक्षेन्मास्तु तद्यन्ममास्ते
 
त्राता सीताकेलिलोलो युवैकः ॥ ४० ॥
 
अभिमतफलसिद्धयै ध्यातुमेकं सुराणां
 
अनुसरति मनो मे यावदाबद्धमेकम् ।
 
अपहरति निरुन्धन्नन्तरा तावदेतत्
 
कपिकुलपरिवारः कश्चिदम्भोदनीलः ॥ ४१ ॥
 
क्षणचलितनिरूढस्वर्णदी कर्णभूषे
 
परिहृतमयकन्यापत्रलेखप्रसङ्गे ।
 
विरचितसुरसुभ्रूविभ्रमप्रातिभाव्ये
 
कुतुकितमतिभव्ये कापि कालिन चेतः ॥ ४२ ॥
 
कचभरनिटिलभ्रूकर्णदृङ्नासिकोष्ठ -
 
स्तनजघननितम्बं पश्यदन्याङ्गनानाम् ।
 
मलिनयति मनश्चेन्मन्मथस्तावता किं
 
विमलयितुमहल्यापावनोऽप्यस्ति वीरः ॥ ४३ ॥
 
नवकुवलयदामश्यामलः कोमलाङ्गया
विरचितमधुरश्रीरेकया विद्युतेव ।
जलधर इव काले जृम्भमाणो मयूरं
 
कुतुकयति मनो मे कोऽपि कोदण्डभूषः ॥ ४४ ॥
 
मनसि मम समिन्धे पुण्यभाजामवेक्ष्यः
कपिसदसि मुनीनां चेतसारवादनीयः ।
 
i
 
1
 
:
 
A