Proofing

2026-04-25 14:09:16 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीरामकर्णामृतम्
 
३०१</ignore>
<verse>
तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्गथा
ग्या
गाढाश्लिष्टो जनकसुतया कौसलेयोऽवतान्नः ॥। ३० ॥
</verse>
<verse>
हंसी मन्दं चरति हरिणी वीक्षते लोललोलं
 

रम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ ।

इत्याश्चर्याद्वभुवि वधूं दर्शयन्तीं यदि त्वां
 

पश्याम्येतैरलमिति वदन् पातु नः कौसलेयः ॥ ३१ ॥
</verse>
<verse>
देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतं
 

कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव ।
 

किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतः

स्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२ ॥
</verse>
<verse>
खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कले
 

नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे ।

सीतां पुष्पसमित्कुशं हृतवतीं संभावयन्तं दृशा

बद्धस्वस्तिक मेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३ ॥
</verse>
<verse>
संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः
 

संक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् ।
 

मृष्टा नेह मनश्शिलेति विसृतां रत्नाङ्गुलीयश्रियं
 

वैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४ ॥
 
</verse>
<verse>
श्लथकच भरान्नैतद्भूमौ निपातय सुन्दरी-
 

त्युदितहसितं सत्व्रीडाया महीदुहितुर्दिशन् ।
 

वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं <ref>1
 
</ref>
दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५ ॥
 
</verse>
<verse>
दलितदनुजाटोपे चापाधिरोपित सायके
 

मरतकमणिच्छाया दायाददा यिमहोभरे ।
 

प्रणतजनताप्राणत्राणप्रवीणपराक्रमे
 

स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६ ॥
 
</verse>
<verse>
अविदितनतक्लेशा नीशानपास्य दिशामहो
 

सह परिहरत् कालीकेलीसखं मुरलीभृता ।
 

वनमृगपरीवारे वीरे वरेण्यधनुर्धरे
 

कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७ ॥
 
</verse>
<footnote>
1. गर्भकः = शिरोनृवृतपुष्पगुञ्जा
 
३०१
 
</footnote>
</page>