Proofing

2026-04-03 16:52:45 by ambuda-bot

This page has not been fully proofread.

श्रीरामकर्णामृतम्
 
तज्ज्याघोषं मृगपतिरवं व्याहरन् वेपिताङ्गथा
गाढालिष्ट जनकसुतया कौसलेयोऽवतान्नः ॥। ३० ॥
हंसी मन्दं चरति हरिणी वीक्षते लोललोलं
 
रम्यं कूजत्ययमिह पिको राजते बर्हिणोऽसौ ।
इत्याश्चर्यानभुवि वधूं दर्शयन्तीं यदि त्वां
 
पश्याम्येतैरलमिति वदन पातु नः कौसलेयः ॥ ३१ ॥
देव त्वां रघुवीर नीरदनिभं सीतातटित्सङ्गतं
 
कारुण्यामृतवर्षिणं कतिपये दृष्ट्वा मयूरा इव ।
 
किं नृत्यन्ति न चातका इव परे किं वा न माद्यन्त्यतः
स्वामिन् पालय पालयेत्यहमपि क्रोशामि मण्डूकवत् ॥ ३२ ॥
खेलत्केकिनि सञ्चरन् मृगशिशौ चूतस्फुरद्वल्कले
 
नीपन्यस्तनिषङ्गधन्वनि जनस्थानोटजप्राङ्गणे ।
सीतां पुष्पसमित्कुशं हृतवतीं संभावयन्तं दृशा
बद्धस्वस्तिक मेणचर्मणि घनच्छायं भजेयं प्रभुम् ॥ ३३ ॥
संप्राप्तो मृगयां विधाय नलिनीपत्राहृतैरम्बुभिः
 
संक्षाल्यांशुकपल्लवेन कुचयोः पादाब्जमुन्मार्जतीम् ।
 
मृष्टा नेह मनशिलेति विसृतां रत्नाङ्गुलीयश्रियं
 
वैदेहीं प्रति दर्शयन् हृदि कृतव्याजो विभुः पातु नः ॥ ३४ ॥
 
श्लथकच भरान्नैतद्भूमौ निपातय सुन्दरी-
 
त्युदितहसितं सत्रीडाया महीदुहितुर्दिशन् ।
 
वनतरुतले मल्लीपुष्पैः कृतं नवगर्भकं 1
 
दिनकरकुलोत्तंसो देवोऽधिरोहति मे मनः ॥ ३५ ॥
 
दलितदनुजाटोपे चापाधिरोपित सायके
 
मरतकमणिच्छाया दायाददा यिमहोभरे ।
 
प्रणतजनताप्राणत्राणप्रवीणपराक्रमे
 
स्फुरति पुरतोऽस्माकं सीतापतौ दुरितं कुतः ॥ ३६ ॥
 
अविदितनतक्लेशा नीशानपास्य दिशामहो
 
सह परिहरत् कालीकेलीसखं मुरलीभृता ।
 
वनमृगपरीवारे वीरे वरेण्यधनुर्धरे
 
कुवलयदलश्यामे रामे कुतूहलि मे मनः ॥ ३७ ॥
 
1. गर्भकः = शिरोनृतपुष्पगुञ्जा
 
३०१