Stotrarnava /346
This page has been fully proofread once and needs a second look.
<page>
<ignore>३००
श्रीरामस्तोत्रेषु
</ignore>
<verse>पायात् पर्णकुटीगतो घनघटा सिक्तावनीसौरभ-
प्
घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले ।
केकाकण्ठशिखण्डिताण्डवव<error>व</error>पदे खेलत्पुरोमारुते
नन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३ ॥
</verse>
<verse>अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित-
ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् ।
दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे
कन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४ ॥
</verse>
<verse>चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्कवणन्नूपुरं
चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् ।
कान्तव्याघ्रनखानुबन्धिकनकमैग्रैवेयकालङ्कृतं
कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५ ॥
</verse>
<verse>दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे
गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी ।
दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं
पश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६ ॥
</verse>
<verse>उन्मीलन्नवमञ्जरी परिमलोदञ्चद्विरेफारवै-
रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले ।
शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला-
ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७ ॥
</verse>
<verse>सीता दत्तकराम्बुजं पदयुगश्लिष्यन्मणीपादुकं
हर्षावेक्षिविहारबर्ह्यपसृताभ्यर्णणं घटोधन्या गवा ।
स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं
साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८ ॥
</verse>
<verse>पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये विभ्रतीं
वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् ।
पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया
मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९ ॥
</verse>
<verse merge-next="true">शैलान्मत्तोऽवतरति करियरर्ज्यास्वनैर्वारय त्वं
सौमित्रे मा भवतु चकिता जानकीति प्रहिण्वन् ।
</verse>
</page>
<ignore>३००
<verse>पायात् पर्णकुटीगतो घनघटा
प्
घ्राणव्यापृतपुष्करद्विपकुले नीपप्रसूनाकुले ।
केकाकण्ठशिखण्डिताण्डव
नन्दन् प्रावृषि चित्रकूटकटके सीतासखो राघवः ॥ २३ ॥
<verse>अर्धावर्तितमन्त्रमर्धविरतस्वाध्यायमर्धोज्झित-
ब्रह्मोपासनमर्धमुक्तहवनातिथ्यादिसर्वक्रियम् ।
दृष्ट्वा पञ्चवटीजुषो यमृषयः सार्थं तपो मेनिरे
कन्दर्पादपि सुन्दरं व्रजति मे काकुत्स्थमेनं मनः ॥ २४ ॥
<verse>चारुस्मेरमुखाम्बुजं चरणयोर्मञ्जुक्
चञ्चद्रत्नललन्तिकालिकलसत्कस्तूरिकाचित्रकम् ।
कान्तव्याघ्रनखानुबन्धिकनक
कौसल्याङ्कविभूषणं कुवलयश्यामं भजामः शिशुम् ॥ २५ ॥
<verse>दत्त्वा पार्श्वजुषो विदेहदुहितुश्चापं कराम्भोरुहे
गुल्फद्वन्द्वनिवेशितस्फिगवनौ कुर्वन् समौ जानुनी ।
दृष्ट्या कूणितया कराम्बुजयुगव्यासक्तमूलाञ्चलं
पश्यन् बाणमृजुं न वेति हृदि मे वीरोऽयमारोहति ॥ २६ ॥
<verse>उन्मीलन्नवमञ्जरी
रारण्ये तुलसीवने मुखरितेऽदृश्यं शुकश्यामले ।
शश्वल्लीनमधीरदृग्वलयया शश्वद्गृहीतं बला-
ज्जानक्या सह चित्रकूटकटके देवं मनो ध्यायति ॥ २७ ॥
<verse>सीता
हर्षावेक्षिविहारबर्ह्यपसृताभ्यर्
स्वामिन् देव जयेति पञ्जरशुकस्वानोल्लसत्तोरणं
साकेताधिपतेरुषस्यवतु नः शय्यागृहान्निर्गमः ॥ २८ ॥
<verse>पाणौ मुष्टिगृहीतपन्नगलतापर्णोच्चये विभ्रतीं
वामे रत्नकरण्डकं तदपरे वीटीं विदेहात्मजाम् ।
पश्यन् कूजति पार्श्वतः कलरवे दृष्ट्या तिरश्चीनया
मन्दस्मेरमुखीं हृदि स्फुरति मे मञ्चाधिरूढः प्रभुः ॥ २९ ॥
<verse merge-next="true">शैलान्मत्तोऽवतरति करि