Stotrarnava /345
This page has not been fully proofread.
श्रीरामकर्णामृतम्
नराधमुषि राघवे यदधुना मनः प्रीयते
समस्तसुरमस्तकप्रणतिकर्मणि ब्रह्मणि ॥ १५ ॥
कटीघटितवल्कलं घनलसज्जटामण्डलं
करात्तशरकार्मुकं कमलपत्रमित्रेक्षणम् ।
तमालदलमेचकं धरणिकन्यकाकामुकं
तरङ्गितकृपारसं तरणिवंशदीपं भजे ॥ १६ ॥
अचोदितफुलक्रमं पुनरपृष्टजातिक्रियं
नयानयविचारणाविधुरमस्तशङ्काकणम् ।
उपेयुषि विभीषणे झटिति दत्तमस्याभयं
२९९
मयेति समुदीरिता भगवतो गिरः पातु नः ॥ १७ ॥
कल्हाराम्बुजगन्धिमन्दपवने खेलन्मृगालङ्कृते
कूजत्कोकिलबालचूत गहने कूले सरय्वाः शुभे ।
पश्यान्वेति शुकं शुकीति चिबुके गृहन् करेण प्रियां
चित्ते भाति हि कोऽपि मे दशशिरोमत्तेभकण्ठीरवः ॥ १८ ॥
कूजत्केकिनि चित्रकूटकटके गोदावरीमेदुरे
प्रत्यग्रप्रसवस्य केसरतरोः प्रच्छायशीते तले ।
कौशेयास्तरणे विदेहदुहितुः कुर्वाणमङ्के शिरो
नीलाम्भोदनिभं भजे रघुकुलप्राचीनभाग्यं प्रभुम् ॥ १९ ॥
त्रस्त प्रस्थित हंसयूथमभितो नृत्यन्मयूरव्रजं
वल्मीकान्तरसंप्रविष्टभुजगं पङ्क्तीभवच्चातकम् ।
पुष्प्यन्नीपसिलीन्ध्रकेत कजनस्थानाटवीमेयुषा
कालिन्ना मम केनचित् कवचितं चेतो विराधद्विषः ॥ २० ॥
संरम्भस्खलितोत्तरीयमवनिन्यस्ताम्रपादाम्बुजा -
वुद्यम्य नीवि पुष्पनिचयं संगृहतीं जानकीम् ।
पश्यन् पञ्चवटीवने मुहुरपि प्रच्छन्न एवान्तिके
हस्तोपात्तधनुश्शरः स्फुरति मे चित्ते रघुग्रामणीः ॥ २१ ॥
निर्वृत्ते खरदूषणत्रिशिरसामुन्मा [मू ]लनादाहवे
वैदेही परिषस्वजे सपदि यं मूर्ता जयश्रीरिव ।
उन्मीलत्पुलकश्रमाम्भसि धनुर्न्यस्तै कहस्ताम्बुजे
तस्मिन् सस्मितवक्त्रचन्द्रमसि मे देवे मनो धावति ॥ २२ ॥