Proofing

2026-04-03 16:52:44 by ambuda-bot

This page has not been fully proofread.

२९८
 
श्रीरामस्तोत्रेषु
 
भरतविदितपादुकाप्रभावं
 
धरतनुजारमणीयनामधेयम् ।
 
करतलधृतकार्मुकं पुमांसं
 
मरतकनीलशरीरमा श्रयामः ॥ ८ ॥
 
निटिलनयननिर्वृतिप्रदाख्यं
 
कुटिलनिशाचरकुम्भिनां मृगेन्द्रम् ।
कटिलसदसिमम्बुदाभमेकं
 
जटिलमुरीकृतचापबाणमीडे ॥ ९ ॥
 
निलयमखिलमङ्गलस्य रक्षो-
 
बलयवस प्रबलानिलायितास्त्रम् ।
 
कलयति हृदयं विदेहकन्या-
 
वलयपदाङ्कितकन्धरं पुमांसम् ॥ १० ॥
 
विमोहयति विष्टपत्रयजनान् गुणारोपण-
 
क्षणत्रुटित चण्डिकार मणचापचण्डध्वनिम [ध्वनौ ] ।
जयत्यसकृदुन्मिषत्पुलकयोरपेतत्रपं
 
परपस्परनिरीक्षणं रघुवरक्षमाकन्ययोः ॥ ११ ॥
करोमि हृदयाम्बुजे कमपि वीरमम्भोनिधे-
र्निबन्धनमपीन्धन...... बन्धुतूणीशयम् ।
 
न कश्चिदपि दृश्यते जगति यस्य शक्तो जये
स्मरप्रहितजानकी नयन पद्मवाणं विना ॥ १२ ॥
 
क एष दलदुत्पलद्युतिरुदारवेषोज्ज्वलः
 
स्वयं विशति मे मनस्त्वरितमाः परिज्ञायते ।
स एष ननु जानकीकुचतटीपटीरद्रव-
 
प्रसक्तरसवासनाघुमुघुमायमानः प्रभुः ॥ १३ ॥
 
भजे शरधनुर्धरं विकटचित्रकूटाटवी-
 
चरं कमपि शङ्करप्रणयिनीप्रियाख्यं प्रभुम् ।
स्फुटं कलितकुङ्कुमा वदति यस्य वक्षस्तटी
 
मृगेन्द्ररसितत्रसज्जनकजाहठालिङ्गनम् ॥ १४ ॥
 
चिराय विधुरस्य मे विषयघर्मघोरातपैः
 
पयोदनिचयोदय प्रतिनिधिः किलेयं दशा ।