Stotrarnava /343
This page has been fully proofread once and needs a second look.
<page>
<title>१९. ॥ अथ श्रीरामकर्णामृतम् ॥
</title>
<verse>दिशतु स कुशलं जिते दशास्ये
विधिविहितस्तुतिवेदितस्वरूपः ।
उपदिशति शिवो नृणां यदीयं
मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १ ॥
</verse>
<verse>विहितविधिमपास्यता निषिद्धा-
न्यपि चरताप्यकृताक्षनिग्रहेण ।
य
यदघमुपचितं मया यतिष्ये
रघुवर संस्मरणेन तन्निमार्ष्टुम् ॥ २ ॥
</verse>
<verse>चिरपरिचितया मनो विकृष्टं
दिशि दिशि वासनया न मे नियाम्यम् ।
इति कवनपथे तवार्य राम
स्मरणविधावनधे करोम्युपायान् ॥ ३ ॥
</verse>
<verse>प्रकृतिरिति सरस्वतीति लक्ष्मी-
रिति गिरिजेति जगत्त्रयीति वा याम् ।
गदति मुनिगणः कवित्वसिद्धध्यै
कथमपि तां कलये विदेहकन्याम् ॥ ४ ॥
</verse>
<verse>मधुरभणितये पतिव्रनानां
मकुटमणिणिं कलये महीकुमारीम् ।
पतिकृत रिपुपातनप्रतिज्ञा-
दलनभयादहितेऽप्यदत्तशापाम् ॥ ५ ॥
</verse>
<verse>हृदय विषयमेव सेवसे किं
यदयमुदग्रविषोपमः क्रमेण ।
मद्
मदयति च निहन्ति च प्रकामं
तदयनमेत्य गिरा भजस्व रामम् ॥ ६ ॥
</verse>
<verse>रघुवरचरणारविन्दभक्ति-
च्छलमकरन्द निरन्तराभिषिक्ताः ।
वकुलपरिमला गिरा मदीया
कविकुलकर्णरसायनानि सन्तु ॥ ७ ॥
</verse>
</page>
<title>१९. ॥ अथ श्रीरामकर्णामृतम् ॥
<verse>दिशतु स कुशलं जिते दशास्ये
विधिविहितस्तुतिवेदितस्वरूपः ।
उपदिशति शिवो नृणां यदीयं
मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १ ॥
<verse>विहितविधिमपास्यता निषिद्धा-
न्यपि चरताप्यकृताक्षनिग्रहेण ।
य
यदघमुपचितं मया यतिष्ये
रघुवर
<verse>चिरपरिचितया मनो विकृष्टं
दिशि दिशि वासनया न मे नियाम्यम् ।
इति कवनपथे तवार्य राम
स्मरणविधावनधे करोम्युपायान् ॥ ३ ॥
<verse>प्रकृतिरिति सरस्वतीति लक्ष्मी-
रिति गिरिजेति जगत्त्रयीति वा याम् ।
गदति मुनिगणः कवित्वसिद्
कथमपि तां कलये विदेहकन्याम् ॥ ४ ॥
<verse>मधुरभणितये पतिव्रनानां
मकुटम
पतिकृत
दलनभयादहितेऽप्यदत्तशापाम् ॥ ५ ॥
<verse>हृदय विषयमेव सेवसे किं
यदयमुदग्रविषोपमः क्रमेण ।
मद्
मदयति च निहन्ति च प्रकामं
तदयनमेत्य गिरा भजस्व रामम् ॥ ६ ॥
<verse>रघुवरचरणारविन्दभक्ति-
च्छलमकरन्द
वकुलपरिमला गिरा मदीया
कविकुलकर्णरसायनानि सन्तु ॥ ७ ॥
</page>