Proofing

2026-04-03 16:52:44 by ambuda-bot

This page has not been fully proofread.

१९. ॥ अथ श्रीरामकर्णामृतम् ॥
दिशतु स कुशलं जिते दशास्ये
विधिविहितस्तुतिवेदितस्वरूपः ।
उपदिशति शिवो नृणां यदीयं
मनुमविमुक्तपुरे विमुक्तिहेतोः ॥ १ ॥
 
विहितविधिमपास्यता निषिद्धा-
 
न्यपि चरताप्यकृताक्षनिग्रहेण ।
यघमुपचितं मया यतिष्ये
 
रघुवर संस्मरणेन तन्निमाटुम् ॥ २ ॥
 
चिरपरिचितया मनो विकृष्टं
 
दिशि दिशि वासनया न मे नियाम्यम् ।
इति कवनपथे तवार्य राम
 
स्मरणविधावन करोम्युपायान् ॥ ३ ॥
 
प्रकृतिरिति सरस्वतीति लक्ष्मी-
 
रिति गिरिजेति जगत्त्रयीति वा याम् ।
 
गदति मुनिगणः कवित्वसिद्धयै
 
कथमपि तां कलये विदेहकन्याम् ॥ ४ ॥
 
मधुरभणितये पतिव्रनानां
 
मकुटमणि कलये महीकुमारीम् ।
 
पतिकृत रिपुपातनप्रतिज्ञा-
 
दलनभयादहितेऽप्यदत्तशापाम् ॥ ५ ॥
 
हृदय विषयमेव सेवसे किं
 
यदयमुदग्रविषोपमः क्रमेण ।
 
मद्यति च निहन्ति च प्रकामं
 
तदयनमेत्य गिरा भजस्व रामम् ॥ ६ ॥
 
रघुवरचरणारविन्दभक्ति-
 
च्छलमकरन्द निरन्तराभिषिक्ताः ।
 
वकुलपरिमला गिरा मदीया
 
कविकुलकर्णरसायनानि सन्तु ॥ ७ ॥