Stotrarnava /342
This page has been fully proofread once and needs a second look.
<page>
<ignore>२९६
श्रीरामस्तोत्रेषु
</ignore>
<verse>शम्भुः स्वयं निरदिश द्गिरिकन्यकायै
यन्नाम राम तव नामसहस्रतुल्यम् ।
अर्थं भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गुणते चतुरः किलार्थान् ॥ ४५ ॥
</verse>
<verse>षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ ४६ ॥
</verse>
<verse>सर्गस्थितिप्रलयकर्मसु चोदयन्ती
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७ ॥
</verse>
<verse>हंसोऽसि मानसचरो महतां यतस्त्वं
संभाव्यते कील ततस्तव पक्षपातः ।
मय्येनमर्पय न चेद्रघुनन्दन........
<ellipsis>... ...</ellipsis>
जिष्णोरपि त्रिभुवने समव...
...
118211
<ellipsis>... ...</ellipsis> ॥ ४८ ॥</verse>
<verse>लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-
मेको रुषा तव तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेव वर्ते
तादृग्विधस्तपनवंशमणे किमन्यैः ॥ ४९ ॥
</verse>
<verse>क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्
सर्वंसहा ननु वधूरपि ते पुराणी ।
वासालयं च ननु हृत्कमलं मदीयं
कान्तापरापि न हि किं कमलालया ते ॥ ५० ॥
</verse>
<verse>इत्थं मम स्तुवदमर्त्यनिगद्यमान-
त्रय्यन्तमन्त्र मुखरीकृतपादपीठ ।
राजाधिराज कृपया रघुवीर वर्ण-
मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१ ॥
</verse>
<trailer>॥ इति श्रीरामवर्णमालिकास्तोत्रं सम्पूर्णम् ॥
</trailer>
</page>
<ignore>२९६
<verse>शम्भुः स्वयं निरदिश
यन्नाम राम तव नामसहस्रतुल्यम् ।
अर्थं भवन्तमपि तद्वहदेकमेव
चित्रं ददाति गुणते चतुरः किलार्थान् ॥ ४५ ॥
<verse>षट् ते विधिप्रभृतिभिः समवेक्षितानि
मन्त्राक्षराणि ऋषिभिर्मनुवंशकेतो ।
एकेन यानि गुणितान्यपि मानसेन
चित्रं नृणां त्रिदशतामुपलम्भयन्ति ॥ ४६ ॥
<verse>सर्गस्थितिप्रलयकर्मसु चोदयन्ती
माया गुणत्रयमयी जगतो भवन्तम् ।
ब्रह्मेति विष्णुरिति रुद्र इति त्रिधा ते
नाम प्रभो दिशति चित्रमजन्मनोऽपि ॥ ४७ ॥
<verse>हंसोऽसि मानसचरो महतां यतस्त्वं
संभाव्यते कील ततस्तव पक्षपातः ।
मय्येनमर्पय न चेद्रघुनन्दन
जिष्णोरपि त्रिभुवने समव
...
118211
<verse>लक्ष्मीर्यतोऽजनि यथैव जलाशयाना-
मेको रुषा तव तथा कृपयापि कार्यः ।
अन्योऽपि कश्चिदिति चेदहमेव वर्ते
तादृग्विधस्तपनवंशमणे किमन्यैः ॥ ४९ ॥
<verse>क्षन्तुं त्वमर्हसि रघूद्वह मेऽपराधान्
सर्वंसहा ननु वधूरपि ते पुराणी ।
वासालयं च ननु हृत्कमलं मदीयं
कान्तापरापि न हि किं कमलालया ते ॥ ५० ॥
<verse>इत्थं मम स्तुवदमर्त्यनिगद्यमान-
त्रय्यन्तमन्त्र
राजाधिराज कृपया रघुवीर वर्ण-
मालास्तवं त्वमवकर्णयितुं प्रसीद ॥ ५१ ॥
<trailer>॥ इति श्रीरामवर्णमालिकास्तोत्रं सम्पूर्णम् ॥
</page>