Proofing

2026-04-03 16:52:44 by ambuda-bot

This page has not been fully proofread.

1
 
श्रीरामवर्णमालिकास्तोत्रम्
 
मूर्त्यन्तरं व्रजवधूजनमोहनं ते
 
जानाति फल्गु न फलं भुवि यत्प्रदातुम् ॥ ३७ ॥
 
बर्हिश्छदग्रथितकेशमन र्हवेष-
 
मादाय गोपवनिताकुच कुङ्कुमाङ्कम् ।
हो न राघव भवान् यदतः प्रतीमः
 
पन्या हिया विरहितोऽसि पुरा श्रियेव ॥ ३८ ॥
 
भद्राय मेऽस्तु तव राघव बोधमुद्रा
विद्रावयन्त्यखिलमान्तरमन्धकारम् ।
मन्त्रस्य ते परिपुनन्ति जगद्यथाष-
 
डष्टाक्षराण्य[पि तथैव ] विवृण्वती सा ॥ ३९ ॥
 
मन्दं निधेहि हृदि मे भगवन्नटव्यां
 
पाषाणकण्टकसहिष्णु पदाम्बुजं ते ।
अङ्गुष्ठमात्रमथवात्र निधातुमर्ह-
 
स्याक्रान्तदुन्दुभितनूकठिनास्थिकूटम् ॥ ४० ॥
 
यज्ञेन देव तपसा यदनाशकेन
 
दानेन च द्विजगणैर्विविदिष्यसे त्वम् ।
 
भाग्येन मे जनितृषा तदिदं यतस्त्वां
 
चापेषुभाक् परमबुध्यत जामदग्न्यः ॥ ४१ ॥
 
रम्योज्ज्वलस्तव पुरा रघुवीर देहः
 
कामप्रदो यदभवत् कमलालयायै ।
चित्रं किमत्र चरणाम्बुजरेणुरेखा
 
कामं ददौ न मुनये किमु गौतमाय ॥ ४२ ॥
 
लङ्केशवक्षसि निविश्य यथा शरस्ते
मन्दोदरीकुचतटी मणिहारचोरः ।
 
शुद्धे सतां हृदि गतस्त्वमपि प्रभो मे
 
चित्ते तथा हर चिरोवनतामविद्याम् ॥ ४३ ॥
 
वन्दे तवाङ्घ्रिकमलं श्वशुरं पयोधे-
 
स्तातं भुवश्च रघुपुङ्गव रेखया यत् ।
 
वं बिभर्ति भजदार्तिगिरिं विभेत्तं
 
विद्यां नताय वितरेयमिति ध्वजं च ॥ ४४ ॥
 
२९५