Proofing

2026-04-25 05:32:36 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२९४
 
श्रीरामस्तोत्रेषु
 
</ignore>
<verse>
त्राणं समस्तजगतां तव किं न कार्
 
यं
सा किं न तत्र करणं करुणा तवैव ।

अख्याति कार्यकरणे तव नेति या वाङ्-

मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥
 
</verse>
<verse>
तत्त्वंपदे पदमसीति च यानि देव
 

तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।

सेवे पदद्वयमतो मृदुलं न वादौ
 

यद्दारुणैरपि ततो भवदर्थलाभः <add>(?)</add> ॥ ३१ ॥
 
</verse>
<verse>
प्रोथं यदुद्वहसि भूमिव हैकदंष्ट्रं
 

विश्वप्रभो विघटिताभ्रघटाः सटा वा ।

रूपं तदुद्भटमपास्य रुचासि दिष्टया
 
ट्या
त्वं शम्बरारिरपि कैतवशम्बरारिः <add>( ? )</add> ॥ ३२ ॥
 
</verse>
<verse>
दग्ध्वा निशाचरपुरीं प्रथितस्तवैको
 

भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्व

त्वञ्
चाशराव्युरसमस्यगुणैः प्रभो मे
 

पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् <add>( ? )</add> ॥ ३३ ॥
 
</verse>
<verse>
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
 

किं न त्वया निगमगीतसहस्रमूर्ध्ना ।
 

मोहं ममामितपदं यदि देव हन्याः
 

कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ ३४ ॥
 
</verse>
<verse>
नम्रस्य मे भव विभो स्वयमेव नाथो
 

नाथो भव त्वमिति चोदयितुं बिभेमि ।
 

येन स्वसा दशमुखस्य नियोजयन्ती
 

नाथो भव त्वमिति नासिकया विहीना ॥ ३५ ॥
 
</verse>
<verse>
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
 

दीनं ततः करुणया कुरु मामपापम् ।
 

कर्तुं रघूद्वह नदीनमपापमुर्व्या
 

शक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६
 
॥</verse>
<verse merge-next="true">
फल्गूनि यद्यपि फलानि न लिप्सते मे
 

चेतः प्रभो तदपि नो भजति प्रकृत्या ।
 
</verse>
</page>