Stotrarnava /340
This page has not been fully proofread.
२९४
श्रीरामस्तोत्रेषु
त्राणं समस्तजगतां तव किं न कार्य
सा किं न तत्र करणं करुणा तवैव ।
अख्याति कार्यकरणे तव नेति या वाङ्-
मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥
तत्त्वंपदे पदमसीति च यानि देव
तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं न वादौ
यद्दारुणैरपि ततो भवदर्थलाभः (१) ॥ ३१ ॥
प्रोथं यदुद्वहसि भूमिव हैकदंष्ट्रं
विश्वप्रभो विघटिताभ्रघटाः सटा वा ।
रूपं तदुद्भटमपास्य रुचासि दिष्टया
त्वं शम्बरारिरपि कैतवशम्बरारिः ( ? ) ॥ ३२ ॥
दग्ध्वा निशाचरपुरीं प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्वचाशराव्युरसमस्यगुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् ( ? ) ॥ ३३ ॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
किं न त्वया निगमगीतसहस्रमूर्ध्ना ।
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ ३४ ॥
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदयितुं बिभेमि ।
येन स्वसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकया विहीना ॥ ३५ ॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
दीनं ततः करुणया कुरु मामपापम् ।
कर्तुं रघूह नदीनमपापमुर्व्या
शक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६ ।
फल्गूनि यद्यपि फलानि न लिप्सते मे
चेतः प्रभो तदपि नो भजति प्रकृत्या ।
श्रीरामस्तोत्रेषु
त्राणं समस्तजगतां तव किं न कार्य
सा किं न तत्र करणं करुणा तवैव ।
अख्याति कार्यकरणे तव नेति या वाङ्-
मुख्या न सा रघुपते भवति श्रुतीनाम् ॥ ३० ॥
तत्त्वंपदे पदमसीति च यानि देव
तेषां यदस्म्यभिलषन्नुपलब्धुमर्थान् ।
सेवे पदद्वयमतो मृदुलं न वादौ
यद्दारुणैरपि ततो भवदर्थलाभः (१) ॥ ३१ ॥
प्रोथं यदुद्वहसि भूमिव हैकदंष्ट्रं
विश्वप्रभो विघटिताभ्रघटाः सटा वा ।
रूपं तदुद्भटमपास्य रुचासि दिष्टया
त्वं शम्बरारिरपि कैतवशम्बरारिः ( ? ) ॥ ३२ ॥
दग्ध्वा निशाचरपुरीं प्रथितस्तवैको
भक्तेषु दानवपुरत्रितयं तथान्यः ।
त्वचाशराव्युरसमस्यगुणैः प्रभो मे
पुर्यष्टकप्रशमनेन लभस्व कीर्तिम् ( ? ) ॥ ३३ ॥
धत्ते शिरांसि दश यस्सुकरो वधोऽस्य
किं न त्वया निगमगीतसहस्रमूर्ध्ना ।
मोहं ममामितपदं यदि देव हन्याः
कीर्तिस्तदा तव सहस्रपदो बहुः स्यात् ॥ ३४ ॥
नम्रस्य मे भव विभो स्वयमेव नाथो
नाथो भव त्वमिति चोदयितुं बिभेमि ।
येन स्वसा दशमुखस्य नियोजयन्ती
नाथो भव त्वमिति नासिकया विहीना ॥ ३५ ॥
पर्याकुलोऽस्मि किल पातकमेव कुर्वन्
दीनं ततः करुणया कुरु मामपापम् ।
कर्तुं रघूह नदीनमपापमुर्व्या
शक्तस्त्वमित्ययमपैति न लोकवादः ॥ ३६ ।
फल्गूनि यद्यपि फलानि न लिप्सते मे
चेतः प्रभो तदपि नो भजति प्रकृत्या ।