Proofing

2026-04-03 16:52:43 by ambuda-bot

This page has not been fully proofread.

श्रीरामवर्णमालिकास्तोत्रम्
 
त्वत्पत्रिणापि रघुवीर ममाद्य माया-
गूढस्वरूपविवृतौ तव कः प्रयासः ॥ २२ ॥
 
जन्तोः किल त्वदभिधा मम कर्णिकायां
कर्णेजपन् हरति कश्चन पञ्चकोशान् ।
इत्यामनन्ति रघुवीर ततो भवन्तं
 
राजाधिराज इति विश्वसिमः कथं वा ॥ २३ ॥
 
झङ्कारिभृङ्गकमलोपमितं पदं ते
चारुस्तवप्रवणचारणकिन्नरौघम् ।
जानामि राघव जलाशयवासयोग्यं
स्वैरं वसेत्तदधुनैव जलाशये मे ॥ २४ ॥
 
ज्ञानेन मुक्तिरिति निश्चितमागमज्ञै-
र्ज्ञानं क मे भवतु दुस्त्यजवासनस्य ।
देवाभयं वितर किं नु सकृत्प्रपत्त्या
 
मह्यं न विस्मर पुरैव कृतां प्रतिज्ञाम् ॥ २५ ॥
 
टङ्कारमीश भवदीयशरासनस्य
 
ज्यास्फालनेन जनितं निगमं प्रतीमः ।
येनैव राघव भवानवगम्य मास-
 
त्रासं निरस्य सुखमातनुते बुधानाम् ॥ २६ ॥
 
ठात्कृत्य मण्डलमखण्डि यदुष्णभानो-
देव त्वददलितैर्युधि यातुधानैः ।
शङ्के ततस्तव पदं विदलय्य वेगा-
तैरद्भुतं प्रतिकृतिर्विदधे वधस्य ॥ २७ ॥
 
डिम्भस्तवास्मि रघुवीर तथा दयस्व
लभ्यं यथा कुशलवत्वमपि क्षितौ मे ।
चिन्मनो मयि निधेहि तव क्षतं किं
 
व्यर्था भवत्वमनसं गृणती श्रुतिस्त्वाम् ॥ २८ ॥
 
ढक्कां त्वदीययशसा मधुनापि शृण्मः
 
प्राचेतसस्य भणितिं भरताग्रजन्मन् ।
 
सत्ये यशस्तव शृणोति मृकण्डुसूनो-
 
र्धाताप्यतो जगति को हि भवाद्दशोऽन्यः ॥ २९ ॥
 
. २९३