Stotrarnava /338
This page has been fully proofread once and needs a second look.
<page>
<ignore>श्रीरामस्तोत्रेषु
</ignore>
<verse>अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
</verse>
<verse>कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरः किरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
</verse>
<verse>खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
<ellipsis>... ... ... ... ... ...</ellipsis> दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
</verse>
<verse>गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
</verse>
<verse>घण्टाघणंघणितकोटिशरासनं ते
लुट ण्टाकमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणाम्
उष्णैरसृग्भिरुद्दरम्भरिणा शरेण ॥ १९ ॥
</verse>
<verse>प्राहङस्यवाङसि परेश तथासि तिर्यक्
ब्ररूमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते <add>( ? )
</add>
मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
</verse>
<verse>चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
</verse>
<verse merge-next="true">छन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकरि रूपम् ।
</verse>
</page>
<ignore>श्रीरामस्तोत्रेषु
<verse>अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
<verse>कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरः
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
<verse>खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
<ellipsis>... ... ... ... ... ...</ellipsis> दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
<verse>गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
<verse>घण्टाघणंघणितकोटिशरासनं ते
लु
जिह्वालुतां वहति यद्भुजगो रिपूणाम्
उष्णैरसृग्भिरु
<verse>प्रा
ब्
एकक्रमेपि तव वा भुवि न म्रियन्ते <add>(
मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
<verse>चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
<verse merge-next="true">छन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकरि रूपम् ।
</page>