Proofing

2026-04-03 16:52:43 by ambuda-bot

This page has not been fully proofread.

श्रीरामस्तोत्रेषु
 
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
 
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
 
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरः किरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
 
खंवायुरग्निरुदकं पृथिवी च शब्दः
 
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
दययात्मबन्धो
 
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
 
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
 
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
 
घण्टाघणंघणितकोटिशरासनं ते
 
लुट कमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणाम्
उष्णैरसृग्भिरुद्रम्भरिणा शरेण ॥ १९ ॥
 
प्राहस्यवाङसि परेश तथासि तिर्यक्
 
ब्रमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते ( ? )
 
मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
 
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
 
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
 
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
 
छन्नं निजं कुहनया मृगरूपभाजो
 
नक्तंचरस्य न किमाविरकरि रूपम् ।