Stotrarnava /338
This page has not been fully proofread.
श्रीरामस्तोत्रेषु
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरः किरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
घण्टाघणंघणितकोटिशरासनं ते
लुट कमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणाम्
उष्णैरसृग्भिरुद्रम्भरिणा शरेण ॥ १९ ॥
प्राहस्यवाङसि परेश तथासि तिर्यक्
ब्रमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते ( ? )
मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
छन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकरि रूपम् ।
अश्रान्तमर्हति तुलाममृतांशुबिम्बं
भग्नाम्बुजद्युतिमदेन भवन्मुखेन ।
अस्मादभूदनल इत्यकृतोक्तिरीश
सत्या कथं भवतु साधुविवेकभाजाम् ॥ १५ ॥
कल्याणमावहतु नः कमलोदरश्री-
रासन्नवानरभटौघगृहीतशेषः ।
श्लिष्यन् मुनीन् प्रणतदेवशिरः किरीट-
दाम्नि स्खलन् दशरथात्मज ते कटाक्षः ॥ १६ ।
खंवायुरग्निरुदकं पृथिवी च शब्दः
स्पर्शश्च रूपरसगन्धमपि त्वमेव ।
दययात्मबन्धो
धत्से वपुः शरशरासभृदब्दनीलम् ॥ १७ ॥
गङ्गा पुनाति रघुपुङ्गव यत्प्रसूता
यद्रेणुना च पुपुवे यमिनः कलत्रम् ।
तस्य त्वदङ्घ्रिकमलस्य निषेवया स्यां
पूतो यथा पुनरघेऽपि तथा प्रसीद ॥ १८
घण्टाघणंघणितकोटिशरासनं ते
लुट कमस्तु विपदां मम लोकनाथ ।
जिह्वालुतां वहति यद्भुजगो रिपूणाम्
उष्णैरसृग्भिरुद्रम्भरिणा शरेण ॥ १९ ॥
प्राहस्यवाङसि परेश तथासि तिर्यक्
ब्रमः किमन्यदखिला अपि जन्तवोऽसि ।
एकक्रमेपि तव वा भुवि न म्रियन्ते ( ? )
मन्दस्य राघव सहस्व ममापराधम् ॥ २० ॥
चण्डानिलव्यतिकरक्षुभिताम्बुवाह-
दम्भोलिपातमिव दारुणमन्तकालम् ।
स्मृत्वापि संभविनमुद्विजते न धन्यो
लब्ध्वा शरण्यमनरण्यकुलेश्वरं त्वाम् ॥ २१ ॥
छन्नं निजं कुहनया मृगरूपभाजो
नक्तंचरस्य न किमाविरकरि रूपम् ।