Proofing

2026-04-25 05:16:20 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<footnote text="18_START">
१८. ॥ अथ श्रीरामवर्णमालिकास्तोत्रम् ॥
</footnote>
<verse>
अन्तस्समस्तजगतां यमनुप्रविष्ट-

माचक्षते मणिगणेष्विव सूत्रमार्याः ।

तं केलिकल्पितरघूद्वह रूपमाद्यं
 

पङ्केरुहाक्षमनिशं शरणं प्रपद्ये ॥ १ ॥
 
</verse>
<verse>
आम्नायशैलशिखरैकनिकेतनाय
 

वाल्मीकिवाग्जलनिधिप्रतिबिम्बिताय ।

कालाम्बुदाय करुणारसमेदुराय
 

कस्मैचिदस्तु मम कार्मुकिणे प्रणामः ॥ २ ॥
 
</verse>
<verse>
इन्दुप्रसादमवतंसयता तदीयं
 

चापं करे हुतवहं वहता हरेण ।

शङ्के जगत्त्रयमनुग्रहनिग्रहाभ्यां
 

संयोज्यते रघुपते समयान्तरेषु ॥ ३ ॥
 
</verse>
<verse>
दृग्विधस्त्वमिति वेद न सोऽपि वेदः

शक्तोऽन्तिकस्थितमवेक्षितुमुत्तमाङ्गे ।
 

श्रोतुं क्षमं न कुदृशेक्षितुमप्यतस्त्वां
 

सर्वे विदन्तु कथमीश कथं स्तुवन्तु ॥ ४ ॥
 
</verse>
<verse>
उष्णांशुबिम्बमुदधिस्मयघस्मरात्र
 
स्त्र
ग्रावा च तुल्यमजनिष्ट गृहं यथा ते ।
 

वाल्मीकिवागपि मदुक्तिरपि प्रभुं त्वां
 

देव प्रशंसति तथा यदि कोऽत्र दोषः ॥ ५ ॥
 
</verse>
<verse>
ऊढः पुरासि विनतान्वयसम्भवेन
 

देव त्वया किमधुनापि तथा न भाव्यम् ।
 

पूर्वे जना मम विनेमुरसंशयं त्वां
 

जानासि राघव तदन्वयसम्भवं माम् ॥ ६॥
 
</verse>
<verse merge-next="true">
ऋक्षं प्लवङ्गमपि रक्षसि चेन्महात्मन्
 

विप्रेषु किं पुनरथापि न विश्वसाम ।
 
--
 
</verse>
</page>