Proofing

2026-04-03 16:52:42 by ambuda-bot

This page has not been fully proofread.

श्रीरामाक्षरमालास्तोत्रम्
 
२८९
 
परमपावनं श्रीरामं
 
फल्गुनसुहृदं श्रीरामम् ।
 
बलिमददलनं श्रीरामं
 
भण्डनसुदृशं श्रीरामम् ॥ १० ॥
 
मन्मथजनकं श्रीरामं
 
यमिजनवेद्यं श्रीरामम् ।
 
रघुकुलतिलकं श्रीरामं
 
लक्ष्मीलोलं श्रीरामम् ॥ ११ ॥
 
वदनजितेन्दुं श्रीरामं
 
शङ्करविनुतं श्रीरामम् ।
 
पदपद कान्तं श्रीरामं
 
सरसिजनाभं श्रीरामम ॥ १२ ॥
 
हतदेवारिं श्रीरामं
 
लक्ष्मणाजं श्रीरामम् ।
 
वनजातदृशं श्रीरामं
 
शफरसुनयनं श्रीरामम् ॥ १३ ॥
 
षड्वर्णज्ञं श्रीरामम्
 
सरसिजनयनं श्रीरामं ।
 
तदेवारिं श्रीरामं
 
2 क्षरणविरहितं श्रीरामम् ॥ १४ ॥
 
॥ इति श्री रामाक्षरमालास्तोत्रं सम्पूर्णम् ॥
 
I.
 
भण्डनं युद्धम्, तस्मिन् दक्षम् ।
 
2.
 
क्षरणं स्वेदः, तद्रहितम् ।
 
19