Proofing

2026-04-03 16:52:42 by ambuda-bot

This page has not been fully proofread.

२८८
 
कम्बुग्रीवं श्रीरामं
 
श्री शिवस्तोत्रेषु
 
खरसंहारं श्रीरामम् ।
गजराडुरदं श्रीरामं
 
घनसदृशाङ्गं श्रीरामम् ॥ ५ ॥
 
1 ङज्युतिकरणं श्रीरामं
 
चटुलाखधरं श्रीरामम् ।
छन्दोविनुतं श्रीरामं
 
जलजाताक्षं श्रीरामन् ॥ ६ ॥
 
झषवररूपं श्रीरामं
 
2जी [जे] शात्मस्थं श्रीरामम्
टीश[टिट्टिभ ] हस्तं श्रीरामं
 
4 ठपूजाङ्घ्रि श्रीरामम् ॥ ७ ॥
 
'डापतिनाशं श्रीरामं
 
'मन्त्रहरं श्रीरामम् ।
 
7 णक्रोधात्मं श्रीरामं
 
तपनान्वयजं श्रीरामम् ॥ ८ ॥
 
परिपालं श्रीरामं
 
दशरथबालं श्रीरामम् ।
 
धरणीलोलं श्रीरामं
 
नरहरिरूपं श्रीरामम् ॥ ९ ॥
 
1.
 
ङः इति शिवस्य नाम । तस्य ज्युतिः श्रुतिः, तस्याः कारणम् ।
 
2.
 
3.
 
4.
 
यस्य तम् ।
 
ञः इति शुक्रस्य नाम । तस्य ईश: अधिदेवता अम्बिका, तदात्मस्थम् ।
टिट्टिभः पक्षिविशेषः ।
 
ठः इति शिवस्य नाम । तस्य पूजा यस्मिन् सः ठपूजः । ठपूजः अङ्घ्रिः
 
डा राक्षसी । तासां पतयः राक्षसाः, तेषां नाशः येन, तम् ।
 
5.
 
6.
 
ढः सर्पः, तस्य मन्त्रः नागास्त्रम्, तस्य हरम् ।
 
7.
 
णः न क्रोधः, अक्रोधात्मानम् ।
 
8.
 
थं भयम्, भयत्रातारम् ।