Stotrarnava /332
This page has been fully proofread once and needs a second look.
<page>
<pignore>२८६ श्रीविष्णुस्तोत्रेषु</pignore>
<verse>ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् ।
ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३ ॥</verse>
<verse>विभीषणं महात्मानं लङ्कायामभिषिच्य च ।
वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४ ॥</verse>
<verse>मदनाकृतये तस्मै मधुरापुरवासिने ।
मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५ ॥</verse>
<verse>प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः ।
अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६ ॥</verse>
<verse>मधुरापुरवासाय वसुदेवसुतप्रभुः <add>(?)</add> ।
श्रीराममङ्गलं नित्यं शृण्वतां सुकृतं भवेत् ॥ २७ ॥</verse>
<verse>एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८ ॥</verse>
<verse>अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९ ॥</verse>
<trailer text="15_END">॥ इति श्रीमङ्गलश्लोकरामायणं संपूर्णम् ॥</trailer>
<title>१६.॥ अथ श्रीचिरञ्जीविरामायणम् ॥</title>
<verse>पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रो
रामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी ।
यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यां
सीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १ ॥</verse>
<verse>श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातं
तद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् ।
स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वे
दत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २ ॥</verse>
<verse>हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवट्यामुषित्वा
वैरूप्यात् शूर्पण<delete>ख्या</delete><add>ख्याः</add> <delete>निशित</delete><add>[कुपित]</add>खरमुखान् ध्वंसयित्वार्धयामम् ।
मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वा
दग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजितं राममीडे ॥ ३ ॥</verse>
<verse merge-next="true">पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वा
कृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा ।</verse>
</page>
<