Proofing

2026-04-25 06:20:45 by akprasad

This page has been fully proofread once and needs a second look.

૨૮ફે
 
<page>
<p>२८६
श्रीविष्णुस्तोत्रेषु
 
</p>
<verse>
ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् ।

ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३ ॥
</verse>
<verse>
विभीषणं महात्मानं लङ्कायामभिषिच्य च ।

वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४ ॥
 
</verse>
<verse>
मदनाकृतये तस्मै मधुरापुरवासिने ।
 

मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५
 
॥</verse>
<verse>
प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः ।

अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६ ॥
</verse>
<verse>
मधुरापुरवासाय वसुदेवसुतप्रभुः <add>( ? )</add>

श्रीराममङ्गलं नित्यं शृण्वतां सुकृतं भवेत् ॥ २७ ॥
</verse>
<verse>
एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् ।

यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८ ॥
</verse>
<verse>
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।

अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९ ॥
</verse>
<trailer text="15_END">
॥ इति श्रीमङ्गलश्लोकरामायणं संपूर्णम् ॥
 
</trailer>
<title>
१६.
 
॥ अथ श्री चिरञ्जीविरामायणम् ॥
</title>
<verse>
पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रो
 

रामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी ।

यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यां

सीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १ ॥
 
</verse>
<verse>
श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातं

तद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् ।
 

स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वे
 

दत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २ ॥
 
</verse>
<verse>
हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवट्यामुषित्वा
 

वैरूप्यात् शूर्पण<delete>ख्या[:]</delete><add>ख्याः</add> <delete>निशित </delete><add>[कुपित ] </add>खरमुखान् ध्वंसयित्वार्धयामम् ।

मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वा
 

दग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजितं राममीडे ॥ ३ ॥
 
</verse>
<verse merge-next="true">
पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वा
 

कृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा ।
 
</verse>
</page>