Stotrarnava /332
This page has not been fully proofread.
૨૮ફે
श्रीविष्णुस्तोत्रेषु
ततोऽग्निवचनात् सीतां प्राप्य हृष्टां यशस्विनीम् ।
ब्रह्मस्तुत्या प्रहृष्टाय रामभद्राय मङ्गलम् ॥ २३ ॥
विभीषणं महात्मानं लङ्कायामभिषिच्य च ।
वानरै राक्षसैः सार्धं पुष्पकस्थाय मङ्गलम् ॥ २४ ॥
मदनाकृतये तस्मै मधुरापुरवासिने ।
मनुवंशप्रदीपाय मानवेन्द्राय मङ्गलम् ॥ २५ ।
प्राप्यायोध्यां च भरतं गङ्गातोयैः सुगन्धिभिः ।
अभिषिक्ताय रामाय ससीतायास्तु मङ्गलम् ॥ २६ ॥
मधुरापुरवासाय वसुदेवसुतप्रभुः ( ? ) ।
श्रीराममङ्गलं नित्यं शृण्वतां सुकृतं भवेत् ॥ २७ ॥
एवं वाल्मीकिना प्रोक्तं रामायणकथामृतम् ।
यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते ॥ २८ ॥
अपुत्राः पुत्रिणः सन्तु पुत्रिणः सन्तु पौत्रिणः ।
अधनाः सधनाः सन्तु जीवन्तु शरदां शतम् ॥ २९ ॥
॥ इति श्रीमङ्गलश्लोकरामायणं संपूर्णम् ॥
१६.
॥ अथ श्री चिरञ्जीविरामायणम् ॥
पायात् क्षीराब्धिशायी कमलभवनुतः कोसलेन्द्रस्य पुत्रो
रामः सौमित्रियुक्तः कुशिकसुतगिरा ताटकाप्राणहारी ।
यज्ञं निर्वर्त्य गङ्गासुचरितमुदितः पावयंस्तामहल्यां
सीतामुद्वाह्य जित्वा पथि भृगुतनयं प्राप्य हर्षादयोध्याम् ॥ १ ॥
श्रीरामं नौमि कैकेय्यभिलषितवरात् खिन्नमालोक्य तातं
तद्वाचा त्यक्तराज्यं झटिति वनगतं मैथिलीलक्ष्मणाभ्याम् ।
स्वर्गस्थे राज्ञि शोकात् कृतनुतिभरतप्रार्थनात् पादुके स्वे
दत्त्वास्मै तन्निवृत्त्या स्थितमनुजयुतं सेवितं चित्रकूटे ॥ २ ॥
हत्वारण्ये विराधं मुनिनिकरमुदे पञ्चवटयामुषित्वा
वैरूप्यात् शूर्पणख्या[:]निशित [कुपित ] खरमुखान् ध्वंसयित्वार्धयामम् ।
मारीचं मर्दयित्वा दशवदनहृतां तत्र सीतामदृष्ट्वा
दग्ध्वा क्रुद्धं कबन्धं शबरिवनितया पूजित राममीडे ॥ ३ ॥
पम्पातीरे हनूमत्पटुतरवचनादृश्यमूकं च गत्वा
कृत्वा सुग्रीवसख्यं निशितशरवरैः सप्तसालांश्च भित्त्वा ।