Proofing

2026-04-25 06:16:47 by akprasad

This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीमङ्गलश्लोकरामायणम्
 
२८५</ignore>
<verse>
चतुर्दशसहस्राणां रक्षसां क्रूरकर्मणाम् ।
 

खरदूषणमुख्यानां हारिणेऽस्तु सुमङ्गलम् ॥ ८॥
</verse>
<verse>
सीतादर्शनयुक्ताय गृध्रमोक्षप्रकाशिने ।

कबन्धहारिणे तस्मै राघवायास्तु मङ्गलम् ॥ ९ ॥
</verse>
<verse>
शबर्या दत्तपूजाय सेविताय हनूमता ।

सुग्रीवकृतसख्याय धैर्ययुक्ताय मङ्गलम् ॥ १० ॥
</verse>
<verse>
वालिनं बलिनं हत्वा सुग्रीवमभिषिच्य च ।

वर्षरात्रनिवासाय रामचन्द्राय मङ्गलम् ॥ ११ ॥
</verse>
<p>
काल । लातिक्रमणाच्चैव कुपिताय महात्मने ।

आगते सति सुग्रीवे प्रसन्नायान्तु मङ्गलम् ॥ १२ ॥
</p>
<verse>
<error>गुङ्ली</error><fix>ङ्गुली</fix>यप्रदात्रे च हनूमति महात्मने ।
 

सीतां दृष्ट्वागते तस्मिन् हर्षयुक्ताय मङ्गलम् ॥ १३ ॥
</verse>
<verse>
अशोकवनिकामध्ये श्रुत्वा सीतां हनूमता ।

सुग्रीवकृतयानाय रघुनाथाय मङ्गलम् ॥ १४ ॥
 
</verse>
<verse>
अथागतं महात्मानमभिषिच्य विभीषणम् ।

कृतसागरबन्धाय सानुजायास्तु मङ्गलम् ॥ १५ ॥
</verse>
<verse>
सेतुना सुखमासाद्य लङ्कां रावणपालिताम् ।

सुवेलगिरिवासाय रणधीराय मङ्गलम् ॥ १६ ॥
</verse>
<verse>
सुग्रीवेण दशग्रीवे मुष्टियुद्धेन मूर्च्छिते ।

इन्द्रजिन्नागबद्धाय विमुक्तायास्तु मङ्गलम् ॥ १७ ॥
</verse>
<verse>
धूम्राक्षे वायुपुत्रेण वज्रदंष्ट्रेऽगदेन च ।

प्रहस्ते नीलनिहते हर्षयुक्ताय मङ्गलम् ॥ १८ ॥
</verse>
<verse>
नयत्यौषधिशैलेन्द्रं हनूमति महात्मने ।
 

ब्रह्मा स्त्रबन्धयुक्ताय विमुक्तायास्तु मङ्गलम् ॥ १९॥
 
</verse>
<verse>
रावणिं च हतं श्रुत्वा लक्ष्मणेन महाबलम् ।

निहत्य मकराक्षं च प्रसन्नायास्तु मङ्गलम् ॥ २० ॥
 
</verse>
<verse>
जित्वा रावणकोटीरं कुम्भकर्णं निहत्य च ।

अतिकार्यं हतं श्रुत्वा प्रीतियुक्ताय मङ्गलम् ॥ २१ ॥
</verse>
<verse>
ततो मूलबलं हत्वा रावणं च महाबलात् ।

विजयं प्राप्य हृष्टाय रघुनाथाय मङ्गलम् ॥ २२ ॥
 
२८५
 
</verse>
</page>