Proofing

2026-04-03 16:52:41 by ambuda-bot

This page has not been fully proofread.

श्रीमङ्गलश्लोकरामायणम्
 
चतुर्दशसहस्राणां रक्षसां क्रूरकर्मणाम् ।
 
खरदूषणमुख्यानां हारिणेऽस्तु सुमङ्गलम् ॥ ८॥
सीतादर्शनयुक्ताय गृध्रमोक्षप्रकाशिने ।
कबन्धहारिणे तस्मै राघवायास्तु मङ्गलम् ॥ ९ ॥
शबर्या दत्तपूजाय सेविताय हनूमता ।
सुग्रीवकृतसख्याय धैर्ययुक्ताय मङ्गलम् ॥ १० ॥
वालिनं बलिनं हत्वा सुग्रीवमभिषिच्य च ।
वर्षरात्रनिवासाय रामचन्द्राय मङ्गलम् ॥ ११ ॥
काल । तिक्रमणाचैव कुपिताय महात्मने ।
आगते सति सुग्रीवे प्रसन्नायान्तु मङ्गलम् ॥ १२ ॥
अगुलीयप्रदात्रे च हनूमति महात्मने ।
 
सीतां दृष्ट्वागते तस्मिन् हर्षयुक्ताय मङ्गलम् ॥ १३ ॥
अशोकवनिकामध्ये श्रुत्वा सीतां हनूमता ।
सुग्रीवकृतयानाय रघुनाथाय मङ्गलम् ॥ १४ ॥
 
अथागतं महात्मानमभिषिच्य विभीषणम् ।
कृतसागरबन्धाय सानुजायास्तु मङ्गलम् ॥ १५ ॥
सेतुना सुखमासाद्य लङ्कां रावणपालिताम् ।
सुवेलगिरिवासाय रणधीराय मङ्गलम् ॥ १६ ॥
सुग्रीवेण दशग्रीवे मुष्टियुद्धेन मूर्च्छिते ।
इन्द्रजिन्नागबद्धाय विमुक्तायास्तु मङ्गलम् ॥ १७ ॥
धूम्राक्षे वायुपुत्रेण वज्रदंष्ट्रेऽगदेन च ।
प्रहस्ते नीलनिहते हर्षयुक्ताय मङ्गलम् ॥ १८ ॥
नयत्यौषधिशैलेन्द्रं हनूमति महात्मने ।
 
ब्रह्मा बन्धयुक्ताय विमुक्तायास्तु मङ्गलम् ॥ १९॥
 
रावणिं च हतं श्रुत्वा लक्ष्मणेन महाबलम् ।
निहत्य मकराक्षं च प्रसन्नायास्तु मङ्गलम् ॥ २० ॥
 
जित्वा रावणकोटीरं कुम्भकर्ण निहत्य च ।
अतिकार्य हतं श्रुत्वा प्रीतियुक्ताय मङ्गलम् ॥ २१ ॥
ततो मूलबलं हत्वा रावणं च महाबलात् ।
विजयं प्राप्य हृष्टाय रघुनाथाय मङ्गलम् ॥ २२ ॥
 
२८५